________________
ज्ञानसारे तृप्त्यष्टकम्
वितृष्णस्य, ज्ञानेन हि तृष्णोपशम एकान्तेन भवतीति ज्ञानतृप्तो न कदाप्यतृप्तो भवतीति ज्ञानतृप्तस्येत्युक्तमिति ध्येयम् । ध्यानसुधोद्वारपरम्परा - ध्यानं शुभध्यानमेव सुधोद्गारः सर्वथा निरपायत्वाच्छुभप्रदत्वाच्चाऽमृतपानोत्थोद्गारः, तस्य परम्परा सन्ततिः, स्यादिति सम्बध्यते । विषयैषिणां दुष्परिणामा विषयासक्ति ज्ञनिनां शुभपरिणामा ध्यानासक्तिरित्यर्थः । तस्माद्विषयान् विहाय ज्ञानाद्याराधने सयत्नो भवेदिति तात्पर्यम् ॥ ७ ॥
5
१०७
शिष्यस्य श्रद्धाऽतिशयार्थ ज्ञानतृप्तं स्तुवन्नुपसंहरति-सुखिनो विषयासानेन्द्रोपेन्द्रादयोऽप्यहो | भिक्षुरेकः सुखी लोके ज्ञानतृप्तो निरञ्जनः ॥ ८ ॥ इति महामहोपाध्याय श्री यशोविजयोपाध्यायविरचिते ज्ञान सारे तृप्त्यष्टकं नाम दशममष्टकम् ॥ १० ॥
सुखिन इति । लोके -संसारे, इन्द्रोपेन्द्रादयः - इन्द्रः शक उपेन्द्रो विष्णुरादिना नरेन्द्रादयस्तेऽपि लौकिक सर्वोत्तम विषयसुख सामग्री समग्रोऽपीत्यपिना सूच्यते । विषयातृप्ताः - विषयैः पुद्गलैरतृप्ता अवितृष्णाः, तादृश सर्वोत्तम विषयभोगोपभोगेऽपि न विषयेषु वितृष्णाः, कथमन्यथा पुनः पुनस्तत्रैव प्रवर्त्तमाना भवेयुरितिभावः । अतएव, न- नैव, सुखिन: - सुखसम्पन्नाः । अपि तु विषयलाभार्थं सततं प्रवर्तमाना अपि तृप्तिमनाप्नुवन्तो दुःखिन एव । यदुक्तम् - " अशान्तस्य कुतः सुखमि "ति । तदेतद् अहो - आश्चर्यम् । लौकिकसर्वोत्तम सुख सामग्री समग्रस्याऽपि न सुखमित्या
·