SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते श्चर्यमित्यर्थः । ननु तर्हि कः सुखीत्यपेक्षायामाह - एक :- अद्वितीयः, केवलमित्यर्थः । निरञ्जनः - निष्कलुषः, विषयविरक्तः कर्ममलरहितश्च, भिक्षुः- भिक्षामात्रोपजीवी साधुरेव ज्ञानतृप्तः - ज्ञानेनकृत्वा तृप्तो वितृष्णः, सच्चिदानन्दात्मकपरब्रह्मणि मग्नः, अत एव सुखी - भूमप्रशस्तसुखसम्पन्नः । स एव सुखी यो ज्ञानी विषयवितृष्णः, अन्यस्तु सुख्यपि सतृष्णत्वाद् दुःख्येव । तादृशसुखस्य दुःख सम्भिन्नत्वात्सुखाभासत्वादिति भावः । तस्मात्सर्वात्मना ज्ञानतृप्तो भवेदिति हृदयम् ॥ ८ ॥ १०८ " इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्नपन्यास प्रवरश्रीयशोभद्रविजयजीगणिवरशिष्यपन्यास श्रीशुभङ्कर विजयगणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायां तृप्त्यष्टकं नाम दशममष्टकम् ॥ १० ॥ अथ निर्लेपाष्टकम् ॥ ११ ॥ अतीतेऽष्टके " भिक्षुरेकः सुखी लोके ज्ञानतृप्तो निरञ्जन " इत्युक्तम् । तत्र निरञ्जनो - निष्कलुषो - निर्लेपः - कर्ममलरहितोरागादिरहितो- वीतराग इत्यनर्थान्तरम् । आत्मनि कर्मादिलेपस्यैव सत्त्वात्सम्भवाश्च । तत्र लेपे को हेतुः कश्च निर्लेपः, कथं वा निर्लेपता साध्येति शिष्यजिज्ञासां नाऽतिसङ्गितेन प्रकारेण समाधातुकामः कस्य लेपो न वा कस्येत्यादावाह - - संसारे निवसन स्वार्थसञ्जः कजलवेश्मनि । लिप्यते निखिलो लोको ज्ञानसिद्धो न लिप्यते ॥ १ ॥
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy