SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे निर्लेपाऽष्टकम् ___संसार इति । निखिल:-सर्व एव, न तु कतिपय एव, लोकः-जनः, आढ्यो वा दरिद्रो वा, यः कोऽपि वा भवतु स सर्व एवेति वाग्वैचित्र्यार्थ निखिलेति विशेषणम् , लोक इति सामान्योक्त्याऽपि निखिललोकेत्यर्थाऽवगमात् । कजलवेश्मनि-कजलमञ्जनम् , कालुष्याऽऽपादकत्वसाधाकर्म तन्मूलो रागादिश्चेति सादृश्यात्कजलपदस्य कर्मणि रागादौ वा वृत्ति बर्बोध्या, एवञ्च श्लेषोऽत्र । “ अज्जनं कजलमि "ति हैमः । तस्य तन्मयत्वात्त. सम्बन्धिनि वेश्मनि गृहे, तत्तुल्ये इत्यर्थः। संसारे-भवे, निवसन्स्थितिं कुर्वन् सन् , स्वार्थसजा-स्वस्याऽऽत्मनो योऽर्थः प्रयोजनम् , तञ्च संसारपदप्रत्यासत्तिमहिना सांसारिकमेव बोध्यम् । अन्यथा परमपुरुषार्थोऽपि स्वार्थ एवेत्यनिष्टार्थ एवाऽऽपद्येतेत्यवधेयम् । तस्य साध्यसाधनभावसम्बन्धेन तत्सम्बन्धी सन्जः सन्नद्धः, कृतोद्यम इत्यर्थः । शेषे षष्ठी । चेदित्यर्थवलाल्लभ्यते । वस्त्रादिभिः कृतनेपथ्यश्च सन्ज उच्यते । लिप्यते-कजलेन कर्मादिभिश्वोपदिह्यते संश्लिष्यत इत्यर्थः । यथा कजलवेश्मनि निवसन् लोको वस्त्रादिसज्जः कज्जलेनाऽयत्नमेव लिप्यते, गृहस्य कन्जलमयत्वात् । तथा संसारे निवसन् स्वार्थसज्जो जनः कर्मादिभिः सम्बध्यत एव, संसारम्य कर्ममूलवाकर्ममयत्वाचेति तात्पर्यम् । नन्वेवं तर्हि कोऽपि निरञ्जनो न स्यादिति लुप्ता भिक्षोः सुखित्वकथेति चेन्न, तदाह-ज्ञानसिद्धः-ज्ञानेन सम्यक्प्रतिपदा सिद्धो विहितसंस्कारः, ज्ञानवानित्यर्थः । स्वार्थरहित इति यावत् । निपुणश्च । चेदित्यत्राऽप्यर्थवलाल्लभ्यते । न लिप्यते-नोपदिह्यते । यथाहि निपुणोऽ
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy