________________
११०
प्रमादी कज्जलगृहे निवसन्नपि स्वनैपुण्यात्सावधानत्वाच्च कज्जलसम्पर्क स्थान परिहारेण न लिप्यते, तथा संसारे निवसन्नपि ज्ञानेन कृत्वा सांसारिकस्वार्थपरिहारेण चेष्टमानः संवृतात्मा न कर्मादिभिलिप्यत इत्यर्थः । एवञ्चाऽज्ञानेन स्वार्थाssसङ्गाल्लिप्तो ज्ञानेन स्वार्थपरिहारतश्च निर्लेपः । अत एव निरञ्जनस्य निरुपाधिकं सुखमिति स एव सुखीति ज्ञानसाहाय्येन निर्लेपताऽवश्यं साध्येति भावः । अत्र कर्मलेपः कज्जललेपश्च भिन्न इति द्वयोर्भेदेऽप्यमेदाsध्यसायरूपाऽतिशयोक्तेरङ्गमुपमा, सा च कज्जलेति सिद्धेति च श्लेषेणाऽनुप्राणितेति सङ्करः ॥ १ ॥
भद्रङ्करोदयाख्यव्याख्याविभूषिते
66
ज्ञानसिद्धो न लिप्यत ” इति यदुक्तम्, तदेव शिष्यस्य स्पष्टं प्रतिपत्तिर्यथा स्यादिति प्रपञ्चयन्नाह -
---
नाऽहं पुद्गलभावानां कर्ता कारयिता च न । नानुमन्ताऽपि चेत्यात्मज्ञानवान् लिप्यते कथम् ? ॥ २ ॥
नाहमिति । अहम् - अहमित्याकारकज्ञानगोचरो द्रव्यास्तिकनयेनाऽविवक्षितसकलपर्यायः शुद्धसच्चिदानन्दस्वरूप आत्मा, पुद्गलभावानाम् - पुद्गला रूपिद्रव्याणि तेषां ये भावा गुणात्मकाः पर्यायात्मकाश्व धर्माः स्पर्शादयो देहादयश्च तेषाम् । कर्त्ता पुद्गलभावोत्पादने स्वतन्त्रो व्यापारवान् न-नैव, अस्मीत्याक्षे पाल्लभ्यते । शुद्धसत्स्वरूपस्याऽऽत्मनो निर्विकारत्वान्निर्विकल्पत्वान्निष्क्रियत्वाच्च तस्य कर्तृत्वाद्यसम्भवात्, आरम्भं प्रति विकल्पस्य कारणत्वात् । यदुक्तम् - " अकामस्य क्रिया काचिदृश्यते नेह कर्हिचित् । यद्यद्धि
,
9
-