SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे निर्लेपाऽष्टकम् १११ कुरुते तत्तत्कामस्य चेष्टितमि "ति " सङ्कल्पमूलः कामो वै कामाः सङ्कल्पसम्भवा " इति चेति भावः । निर्विकल्पत्वादेव च, कारयिता - पुद्गलभावानां कर्तुः प्रयोजकः, चः - समुच्चये, ननैव । अपिचेति पुनः समुच्चये । अनुमन्ता - अनुमोदकः, त्वं यत्करोषि तत्र मम सन्मतिः, त्वया सुष्ठु कृतमित्यादिरूपेण स्वसम्मतिप्रद इत्यर्थः । न-नैव, आत्मपुद्गलयोरत्यन्तभेद इत्यात्मा स्वस्वभावस्य सम्यग्ज्ञानादेरेव कर्त्रादिर्न तु पुद्गलभावानाम्, तेषां विभावत्वातत्राऽऽत्मनोऽव्यापारात् । आत्मनि पुद्गलभाव कर्तृत्वादिकं हि निबिडतराऽज्ञानमूलरागादिवशादारोपितं न तु वास्तवम्, यदुक्तम् - " प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते " इति । अत एव इति उक्तप्रकारेण, आत्मज्ञानवान् - आत्मा न कर्त्रादिरित्येवं रूपेणाऽऽत्मनो यज्ज्ञानं तद्वान्, आत्मा शुद्धसच्चिदानन्दमयो निर्विकल्पो निर्विकार इत्येवमात्मविषयकसम्यग्ज्ञानसम्पन्नो जीव इत्यर्थः । कथं लिप्यते १केनप्रकारेण लिप्तो भवेत् !, काक्का न कथमपि कर्मादिभिर्मलैलिप्यत इत्यर्थः । लेपहेतु र्ह्यहं ममेत्यादिबुद्धिः, तस्यैवाऽभावादात्मज्ञानिनः । यदुक्तम्- “ यस्य नाऽहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । इत्वाऽपि स इमांल्लोकान हन्ति न निबध्यते " इति । तदेतत्सुष्ठुक्तम् - " ज्ञानसिद्धो न लिप्यते " इति । अज्ञानाद्रागाल्लेगः, ज्ञानाद्रागादिपरित्यागान्निर्लेपतेति निष्कर्षः ॥ २ ॥ दृढबद्ध नन्वनादिवासनयाऽऽत्मन्यज्ञानात्कर्तृत्वादिभावना: मूलेति तदुच्छेदो ज्ञानिभिरेव साध्योऽल्पज्ञैस्तु सुदुष्कर इत्यतः
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy