________________
११२
भद्रङ्करोदयाख्यव्याख्याविभूषिते
सुकरः कश्चनोपाय उपदिश्यतां निर्लेपतासाधनमिति शिष्यप्रार्थना
मुन्नीयोपदिशति
-
लिप्यते पुद्गलस्कन्धो न लिप्ये पुद्गलैरहम् । चित्रव्योमाञ्जनेनेव ध्यायन्निति न लिप्यते ॥ ३ ॥
लिप्यत इति । पुद्गलैः-रूपिद्रव्यैः, मूर्वैरित्यर्थः । पुद्गलस्कन्धः - रूपिद्रव्यसङ्घात एव सर्वं वाक्यं सावधारणमिति न्यायादेवाऽर्थो लभ्यते । लिप्यते - उपदिद्यते, उपचीयते इत्यर्थः । पुद्गलानां स्निग्वरूक्षगुणतारतम्याद्बन्धो भवति । विस्तरेण बन्धप्रक्रिया विशेषं जिज्ञासुभिस्तत्त्वार्थाऽधिगमसूत्रादौ द्रष्टव्या । एवकारव्यवच्छेद्यमाह-अहम् - अहमितिप्रतीतिगोचर आत्मा, न-नैव, लिप्ये- उपदिये, उपचीये इत्यर्थः । रसाद्यासेवनेन हि देह । दिपुद्गलस्कन्धपोषः सर्वानुभूतः आत्मा तु तदवस्थ एव तिष्ठति, मूर्त्तस्य हि मूर्तेन लेपो न त्वमूर्त्तस्यात्मनो मूर्त्तेनेति भावः । तत्र दृष्टान्तमाह चित्रव्योम - चित्रं विचित्रम्, अद्भुतमित्यर्थः । अमूर्तत्वात्पुंद्ग लविचक्षणत्वादवगाहमात्रलिङ्गत्वात्तद्विचित्रमिति बोध्यम् । चित्रवर्णमिति व्याख्यानं तु व्याहतम् लेपं विना चित्रवर्णत्वाऽस म्भवाद्वर्णस्य मूर्त्तधर्मत्वाच्चेतिध्येयम् । तादृशं यद्व्योम गगनं तत्, अञ्जनेन - कज्जलेनेव, न लिप्यत इति पुरुषव्यत्ययेनाऽन्वयः । यथाऽञ्जनेन व्योमा मूर्त्तत्वान्न लिप्यते, तथाऽमूर्त्तोऽहमात्मा पुद्गलैर्न लिप्य इत्यर्थः । एतेन " अहं पुद्गलैर्न लिप्येऽमूर्त्तत्वात्, यद्यदमूर्त्त तत्पुद्गलैर्न लिप्यते, अञ्जनेन चित्रव्योमवदित्यन्वय्यनु
,