________________
झानसारे त्यागाऽष्टकम्
तदनुकूलाऽऽचरणाऽऽत्मकाऽऽसेवनारूपया च यत्साम्यं तन्मयत्वे. नाऽऽस्मपरिणतिस्तेन कृत्वा, शिक्षयोरात्मसात्करणेनेत्यर्थः । न केवलमधिगममात्रेण कृतकृत्यता, किन्तु तथाऽनुष्ठानेन । यदुक्तम्ज्ञानं भारः क्रियां विने"ति, “ यस्तु क्रियावान् पुरुषः स विद्वानि" ति, "गुरुशुश्रूषया विधे"ति च । तदपि च न यान्त्रिकप्रवृत्तिवत्, अपि त्वात्मनस्तन्मयत्वमिष्टम् , तस्यैव फलसाधनप्रत्यलत्वादिति भावः । आत्मतत्त्वप्रकाशेन-आत्मनस्तत्त्वं सच्चिन्मयत्वमात्मैव तत्त्वमिति वा तस्य प्रकाशेन प्रबोधेन हेतुना, सच्चिन्मयात्मज्ञानेनेत्यर्थः । आत्मस्वरूपप्रकाशो हि शुद्धात्मप्रकाश एव, धर्मधर्मिणो. रमेदादिति बोध्यम् । गुरुत्वम्-परप्रवोधयोग्यता, नोदेति-नाऽऽ. विर्भवति । एतेन हि यो ज्ञानं लब्ध्वा तथाऽनुष्ठानेनाऽऽत्मज्ञः स एव गुरुः परप्रबोधयोग्यः । स्वयं तीर्णस्यैव परतारणाऽधिकारा. स्वयमसिद्धस्य परसाधनाऽशक्तेश्चेति सूच्यते । यदुक्तम्" परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्म स्वीयमनुष्ठानं कस्यचित्तु महात्मनः" इति । तावत्-तदवधि, गुरूत्तमः-आत्मबोधप्रदत्वादुत्तमो गुरुः, स एव ह्युत्तमो गुरु र्य आत्मबोधप्रद इति भावः । सेव्यः-परिचरणीय आश्रयणीयश्च । न तु त्याज्यः, धर्मसंन्यासवताऽपीति प्रस्तावाल्लभ्यते । जाते ह्यात्मबोधे सम्बन्धमात्रस्य निवृत्ते गुरुशिष्यसम्बन्धोऽपि निवर्त्तते स्वतः । आत्मज्ञानात्पूर्व गुरुत्यागे तु यदर्थ सर्वारम्भ स्तन्मूल एव कुठाराघातः स्यात् , गुरुं विना ज्ञानलामे साधनान्तरविरहाद् धर्मसंन्यासमात्रेण कृत