________________
८०
भद्रकरोदयाख्यव्याख्याविभूषिते
शमिकभावसहचारिण इति यावत् । अपिना गृहधर्मसमुच्चयः । धर्मा:-क्षमाशीलादयः, त्याज्या:-परिहरणीयाः, भवन्तीति शेषः। अत्रेदं बोध्यम्-यदा देवगुरूगसनादिना कर्मक्षयोपशमतः शीलादिपरिग्रहस्तदा स पित्रादिसम्बन्धत्यागेनैव भवतीति बाह्यवर्गत्यागो गृहिधर्मसंन्यासः । किन्तु सोऽतात्त्विकः, तस्याऽऽत्मस्वभावत्वाऽनापन्नत्वात् , तदानीं दर्शनज्ञानादेरहदाद्यालम्बनेन प्रवृत्तरिदं त्यागादिकं ममेत्येवं भेदबुद्धे र्जागरूकत्वात्कृत्रिमत्वात् । यदा त्व. भ्यासादिना गुणवृद्ध्याऽऽत्मा निर्विकल्पो जायते, तदाऽनालम्बनदर्शनज्ञानादिस्वरूप आत्मेत्यात्मस्वभावभूतत्वाद्दर्शनादेस्तदनुकूल. क्रियामात्रनिवृत्तिरात्मनो निर्विकल्पत्वादिति तत्र यतिधर्माणां शीलादीनामपि देवगुर्वाद्यालम्बनानां निवृत्तिः । सहजशीलादेरेवतदानीं सत्त्वात् । अत एव तत्र यतिधर्मसंन्यासोऽपि । अतश्व स चन्दन गन्धवस्वाभाविक इत्युत्तमो धर्मसंन्यास इति तस्मिन् लब्धे क्षायोपशमिका भावास्त्याज्या इत्युच्यते । परमार्थतस्तु ते स्वयमेव निवर्तन्ते, निमित्ताऽभावादिति ॥ ४ ॥ ____ननु सर्वे धर्मास्त्याज्या इत्युच्यते, तकि गुरवोऽपि त्याज्याः ! इति शिष्यशङ्कां समाधित्सुगह
गुरुत्वं स्वस्य नोदेति शिक्षामात्म्येन यावता । . आत्मतत्वप्रकाशेन तावत्सेव्यो गुरूत्तमः ॥ ५ ॥
गुरुत्वमिति । यावता-यत्परिमाणेन कालेन कृत्वा, स्वस्यमुमुक्षोर्जीवम्य, शिक्षासात्म्येन-शिक्षाभ्यां ज्ञानस्य ग्रहणरूपया