________________
ज्ञानसारे त्यागाऽष्टकम्
७९
येन धर्मसंन्यासस्य गृहिधर्मसंन्यास उत्तमधर्मसंन्यासश्चेति द्वैविध्यं स्वबुद्ध्योपकल्पितम् । कथमन्यथाऽत्राऽप्रिमश्लोके च विभिन्नप्रकारेण धर्मसंन्यासवर्णनं सङ्गतं स्यात् ।। युक्तं चैतत्प्रतिभाति, क्रमेणैव हि त्यागो गुणवृद्ध्या साध्यो न तु युगपदेव, त्यागविषयमेदाच्च । यदुक्तम्-" अयमेव हि भेदो भेदहेतुर्वा, यद्विरुद्धधर्माऽध्यासः कारणभेदश्चे" ति ॥ ३ ॥ ___ तदेवं गृहिधर्मसंन्यासेन क्रमशो गुणवृद्ध्या तात्त्विकं धर्मसेन्यासं शिष्यमुपदिशन्नाह
धर्मास्त्याज्याः सुमङ्गोत्थाः क्षायोपशमिका अपि । प्राप्य चन्दनगन्धामं धर्मसंन्यासमुत्तमम् ॥ ४ ॥
धर्मा इति । चन्दनगन्धामम्-चन्दनस्य स्वनामप्रसिद्धस्य गन्धः सौरभः, स इव स्वाभाविकत्वादाभातीति तं तादृशं चन्दनगन्धवत्सहनम् , अत एव, उत्तमम्-गृहिधर्मसंन्यासाऽपेक्षयोत्कृष्टम् , स्वाभाविकत्वातात्विकमित्यर्थः । स्वाभाविकं ह्युत्तमं कृत्रिमं चाऽपकृष्टमिति लोकप्रसिद्धमिति भावः । धर्मसंन्यासम्-धर्मत्यागम् , तदाख्यं योगमित्यर्थः । धर्मत्यागजन्यं निर्विकल्पात्मकमात्मपरिणाममिति यावत् । प्राप्य-उपलभ्य, क्षायिकभावस्थः सन्नित्यर्थः । सुसङ्गोत्था:-सु सतां देवगुर्वादीनां सङ्गात्तदुपासनादिरूपसम्पर्कादुत्तिष्ठन्ति कर्मक्षयोपशमत आविर्भवन्तीति ते तादृशाः, सुसङ्गजनितकर्मक्षयोपशमजन्याः । अत एव, क्षायोपशमिका:-कर्मणां क्षयोपशमयोर्भवा इत्यतः क्षायोपशमिकशब्दवाच्याः, क्षायोप.