SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७८ भद्रङ्करोदयाख्यव्याख्याविभूषिते पदं लोकप्रयोगरूढ्योपात्तमवगन्तव्यम् , एवकारेणैव गतार्थत्वात् । कान्ता-मुक्क्याघलौकिककामनापूर्तिसाधनत्वात्स्त्री । सांसारिकी कान्ता तु दुष्परिणामेति सा न कान्ता भवितुमर्हतीति भावः । यस्य कान्ताऽस्ति, तस्य ज्ञातयोऽपि स्युरित्यत आह-मे-मम, समक्रिया:-समास्तुल्याः क्रियास्त्यागादिका येषां ते तादृशाः साधवः, एवकारोऽत्राऽपि सम्बध्यते । तेन लौकिकगोत्रादिप्रयुक्त ज्ञातिव्यवच्छेदः । ज्ञातयः-सगोत्राः, त्यागिनो हि त्यागिन एव ज्ञातयः, तेषां सांसारिकसम्बन्धत्यागातादृशसम्बन्धमूलकज्ञातीनामसम्भवात् । इति-उक्तप्रकारेण, समता कान्ता, साधवो ज्ञातयः, शीलादयो बन्धवो धृत्युपयोगी पितरा वित्येवंप्रकारां बुद्धिं स्वसृमा. तुलादिष्वप्यनुकूलतयाऽऽस्थाय, बाह्यवर्गम्-आत्मसम्बन्धस्याऽना. स्मधर्मेऽसम्भवाच्छरीरसम्बन्धमेव प्राधान्येनोपादाय प्रवृत्ततया बहिर्भवं पित्रादिकमन्यदपि स्वस्रादिकं सर्वपरिच्छदम्, परिवारपरिजनमित्रधनधान्यादिकमित्यर्थः । त्यक्त्वा-तेषु ममत्वं संहृत्य, धर्मसंन्यासवान्-धर्मो गृहिधर्मस्तस्य संन्यासस्त्यागस्तद्वान् , भवेत् । गृहिधर्मात्मकं पित्रादिसम्बन्धमुपलक्षणत्वाच्छरीरमूलवस्तु. मात्रसम्बन्धं स्वस्वामित्वादिकमपि त्यजेदित्यर्थः । पित्रादिसम्बन्धस्याऽनादिवासनया दृढ़बद्धमूलत्वात्सर्वथैव सहसा तत्त्यागाऽसम्भवाप्रथमं धृतिशुद्धोपयोगादीन् प्रिनादिरूपत्वेनोपकल्प्य लौकिकपित्रादिसम्बन्धं त्यजेत् । स एषोऽतात्त्विको धर्मसंन्यासो बुद्धिपूर्वकस्वादिति बोध्यम् । अत्र चेदमवधेयम्-योगदृष्टिसमुच्चये सामर्थ्ययोगस्य धर्मसंन्यासो योगसंन्यासश्चेति द्वैविध्यमुक्तम् । तत्रोपाध्या
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy