SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे त्यागाऽष्टकम् ७७ ध्रुवैकरूपान्-ध्रुवं निश्चितं यथास्यात्तथा, एकरूपान् तुल्यस्वभावान् । न तु कदापि कुतोऽपि हेतोः सांसारिकबन्धुवद्विभिन्नरूपान् , शीलादिबन्धून्-शीलं ब्रह्मचर्य तदादीन् तत्पकारानहिं. साऽस्तेयापरिग्रहसत्यादीन् सांसारिकबन्धुवत्सदैव भवव्यसनसहायत्वाद् बन्धून् परमार्थतो बन्धुपदवाच्यान् । श्रये-आश्रयामि । अध्रुवत्यागेन ध्रुव एवाऽऽश्रयणीयः, अन्यथाऽनर्थसम्माप्तेः । यदुक्तम्- “ यो ध्रुवाणि परित्यज्याऽध्रुवाणीह निषेवते । ध्रुवाणि तस्य नश्यन्ति नष्टान्येवाऽध्रुवाणि तु ” इति । सांसारिकसम्बन्धोऽध्रुवश्विरत्प्रवृत्तत्वाजीर्णत्वादुद्वेगजनकश्व, किञ्चाऽनादिरित्यतो भवपरम्पराऽनुबन्धक एव न तु भवोच्छेदसहायः । कथमन्यथाs. नादिः स्यादित्यतस्तदुपेक्ष्य भवोच्छेदसहायत्वात्सदा बन्धुभावेनाऽवस्थान द्धृवत्वाच्च शीलादिबन्धव एवाऽऽश्रयणीयाः प्रेक्षावतेत्रि सांसारिकबन्धुसम्बन्धोऽवश्यहेय इति शीलादिष्वेव बन्धुबुद्धिं कृत्वा सांसारिकांस्तांस्त्यजेदिति भावः ।। २ ।। .. बाह्यवर्गत्यागेनैव धर्मसंन्यासलाभ इति सक्षेपेण शिष्यं सुपोषयिषुगह कान्ता मे समतेवैका ज्ञातयो मे समक्रियाः। बाह्यवर्गमिति त्यक्त्वा धर्मसंन्यासवान् भवेत् ।। ३ ।। - कान्तेति । मे-मम, एका-अद्वितीया, समता-सुखदुःखादिषु तद्धे तुषु च समाना ममत्वादिरहित्वान्मध्यस्था चित्तवृत्तिरेव, एवकारेण सांसारिकव्यवहारप्रसिद्धस्त्रीव्यवच्छेदः । एवञ्चैकेति .
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy