________________
भद्रङ्करोदयाख्यव्याख्या विभूषिते
धृत्यादिभिरेव सम्बन्धो वास्तव उपादेयः, सांसारिकश्च कल्पितोऽनिष्टश्व हेय इति हृदयम् । सांसारिकपितापुत्रादिसम्बन्धस्य कल्पितत्वे च धारिणीवज्रजङ्घपुत्र सुभानुकुमार कथानुसन्धेया । अत्र च विस्तरभिया तन्नोपन्यस्यते || १ ||
न मातापितृसम्बन्धत्यागमात्रेणेष्टसिद्धिरिति शिष्यं बुबोधयिषुबन्धुसम्बन्धत्यागमाह -
युष्माकं मङ्गमोऽनादिर्बन्धवोऽनियताऽऽत्मनाम् । वैकरूपान् शीलादिवन्धूनित्यधुना श्रये ॥ २ ॥
७६
"
युष्माकमिति । बन्धवः स्वजनाः !, आमन्त्रणमेतत् । पितृव्यमातुलादयो बान्धवा इत्यर्थः । " स्वो ज्ञातिः स्वजनो बन्धुरि" ति हैम: । अनियतात्मनाम्-न नियतो निश्चित आत्मा स्वरूपं बन्धुत्वरूपं येषां ते तादृशानाम् हेतुवशाद्बन्धवोऽपि शत्रूयन्त इति न नियमेन ते बन्धव एवेत्यनियमेन बन्धु भूतानामित्यर्थः । एतच्च तत्सम्बन्धत्यागे बीजमुक्तम् । हेतुवशादेव ते बन्धवः, किञ्च भवान्तरे तेऽन्यादृशा अपीति तेषां कृत्रिमा बन्धुतेति तत्र को मोह इति तत्सम्बन्धस्त्याज्य एवेति भावः । युष्माकम् - बन्धु पदवाच्यानां भवताम् सङ्गमः - सम्बन्धः, सङ्गतिर्योगो वा । अनादिः - प्रवाहरूपेणाऽनादिकालमारभ्य प्रवृत्तः भवस्याऽनादिस्वाद्भवे भवे च बन्धुसङ्गमादिति भावः । इति-भवद्भिः सङ्गमस्यानादित्वाद्धेतोः, अधुना - साम्प्रतम् तं सङ्गमं विहाय भवतो बधून्विहाय वेत्यर्थबलाल्लभ्यते । तत्र हेतुगर्भ विशेषणमाह
"
1
9