________________
७४
भद्रकरोदयाख्यव्याख्याविभूषिते यशोमद्रविजयजीगणिवरशिष्य--पन्न्यासश्रीशुभङ्करविजयगणिविरचितायां भद्रङ्करोदयाख्यायां व्याख्यायामिन्द्रियजयाऽष्टकं नाम सप्तममष्टकम् ॥ ७ ॥
॥ त्यागाऽष्टकम् ॥ इन्द्रियजयफलं श्रुत्वा सहर्षमुकर्णं तदभिमुखं शिष्यं सावधानीकुर्वनिन्द्रिय जयान्न साक्षादेव फलसम्पत्तिः, किन्तु त्यागद्वारा । स च धर्मसंन्यासो योगसंन्यासश्चेति द्विविधस्त्यागः कथं साध्य इति जिज्ञासाधीनतत्प्रकारबुबोधयिषया प्राथम्याद् धर्मसेन्यासं विवक्षु मातापितृसम्बन्धय सर्वसम्बन्धमूलत्वात्तत्यागमेवादावाह
संयमाऽऽत्मा श्रये शुद्धोपयोगं पितरं निजम् । . धृतिमम्बां च पितरौ तन्मां विसृजतं ध्रुवम् ।। १॥ . संयमात्मेति । संयमात्मा-संयमश्चारित्रम्, सर्वसावद्यविरतिः । स एवात्मा स्वरूपं यस्य स तादृशः, गृहीतचारित्रः सन्नित्यर्थः । निश्चयनयेन ह्यात्मनः सर्वसावद्यविरतिरूपशुद्धचिन्मयादित्वमेव स्वभावः, असंयमस्त्वज्ञानादिति गुणगुणिनोरभेदात्संयमात्मैवात्मा । आत्मनोऽसंयतस्य संयमपरिणामश्च सम्यग्ज्ञानादिना, ताहशसंयमश्च नैकदैव साध्यः, किन्तभ्यासादिना चारित्रादिलिङ्गपतिपत्तिपूर्वकं क्रमश एवेति · चलन चलित' इति न्यायेन संयमसाधनप्रवृत्तः साकल्येन तदनवाप्तावपि संयमात्मैवेति बोध्यम् । अहमित्यर्थबलालभ्यते । निजम्-स्वकीयम् , . वस्तुतः म्वसम्बन्धिनम् , शुद्धोपयोगम्-शुद्धं मिथ्यात्वादिमोहादिलेश