________________
ज्ञानसारे इन्द्रियजयाऽष्टकम्
विवेकद्विपहयक्षैः समाधिधनतस्करैः। इन्द्रियैर्न जितो योऽमौ धीगणां धुरि गण्यते ॥ ८ ॥ इति महामहोपाध्यायश्रीमद्यशोविजयोपाध्यायविरचिते शानसारे इन्द्रियजयाऽष्टकं नाम सप्तममष्टकम् ॥ ७ ॥
विवेकेति । यः-यत्प्रकारो जनः, विवेकद्विपहर्यक्षेः-विवेको हेयोपादेययोः सदसतोर्भेदेन ग्रहः, स एवेन्द्रियह यक्षघात्यत्वाद् द्वाभ्यां शुण्डया मुखेन च पिवतीति द्विपो गजस्तस्य तन्नाशकत्वात्तत्सम्बन्धिनो हर्यक्षाः सिंहास्तैस्तद्रूपैः । यदुक्त मिहैव-" वृद्धास्तृष्णाजलाऽऽपूर्णरि "त्या दिनेति बोध्यम् । “ सिंहो मृगे द्रःपञ्चास्यो हर्यक्षः केसरी हरिरि "त्यमरः । तथा-माधिधन -- तस्करैः-समाधिनिलयः, स एव सर्वेष्टा त्वाल्लोकिके ष्टप्रदसुवदिधनरूपं धनं तस्य तदपहारकत्वात्तत्सम्बन्धिरूपैम्लस्करैश्चौरैः। यदुक्तं प्रकारान्तरेण पूर्वमिहैव-" गिरिमृत्स्नां धनं पश्यन्नि " त्यादिनेति बोध्यम् । तैस्ता दृशैः. विवेकनाशकैः समाधिपरिपन्थिभिश्चेतिसमुदितसारार्थः । इन्द्रियैः-चक्षुरादिभिः पञ्चभिरिन्द्रियैः कर्तृभिः, न जित:-न स्वाधीनीकृतः, असौ-तादृशो विरलो जनः, धीराणाम्-धैर्यवतां दृढ़स्थिर चित्तानां योगिप्रभृतीनाम् , धुरि-अग्रे, गण्यते-कीर्त्यते । एतेन योगिनामपीन्द्रिय जयो दुर्लभ इति ध्वन्यते ! जितेन्द्रिय एव सर्वोत्कृष्टो धीर इति भावः । तम्मात्सर्वोत्कर्षलाभतोऽपीन्द्रियजयार्थमवश्यं सोद्यमेन भाव्यमिति तात्पर्यम् ॥ ८ ॥ - इति ज्ञानसारे प्रख्यातव्याख्यात-कविरत्न-पन्न्यासप्रवरश्री