SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ भद्ररोदयाख्यव्याख्याविभूषिते र्भाववत्समासः । दुर्दशाम्-दुरनिष्टां दशामवस्थाम् मरणादिरूपामवस्थामित्यर्थः । तादृशावस्थाया अनिष्टत्वं सर्वलोकप्रसिद्ध. मेवेति भावः । यान्ति प्राप्नुवन्ति तथाहि पतङ्गा रूपलौल्यादीपेषु प्रवर्तमानाः प्रदीपवह्निना दह्यन्ते, भृङ्गाश्च गन्धलोभान्मदस्राविषु गजगण्डस्थलेषु प्रवर्त्तमाना गजेन कर्णतालेन हन्यन्ते, मीनाश्च रसलोभाद्वडिशादिषु प्रवर्त्तमाना धीवरादिभि गृहीत्वा गतासवः क्रियन्ते, गजाश्व स्पर्शलोभात्करिणीषु प्रवर्त्तमाना हस्तिपकादिभिर्वध्यन्ते, हरिणाश्च शब्दलोभात्तदा विर्भावदिशं प्रति प्रवर्त्तमानाः पाशेषु गर्त्तेषु पातयित्वा वा बध्यन्ते चेति लोकप्रतीतमेव । ननु भवत्वेवम् तेन मनुष्यस्य किमितिचेतत्राह - पञ्चभिः - इदमेकमिदमेकमित्येवं सङ्ख्या कैः, तैः - इन्द्रियदोषैः, पञ्चभिरिन्द्रियैः कृत्वैकव्यक्तावेव समाहृतेः पञ्चभिर्दोषैरित्यर्थः । हेतौ गुणात्पञ्चमी विकल्प्यत इति तैरिति तृतीया बोध्या । किं न ? - कुतो न ?, अपि तु विशेषेणः ऽवश्यमेव च दुर्दशां यान्तीति काका व्यज्यते । जना इति शेषः । यत्रकै केन्द्रियदोषाद्दुर्दशा, तत्र पञ्चेन्द्रियदोषपञ्चकात्मेति किमु वक्तव्यमिति भावः । यदुक्तम् - "कुरङ्गमातङ्गपतङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्यते यः सेवते पञ्चभिरेव पञ्चे "ति ॥ ७ ॥ सङ्कलनया पञ्च " I ७२ 9 9 उक्तप्रदेशेनेन्द्रियजये जातां शिष्यस्य श्रद्धां द्रढयितु काम उक्तार्थसङ्ग्रहपूर्वकं जितेन्द्रियं स्तुवन्नुपसंदरति **
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy