SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे इन्द्रियजयाऽष्टकम् सदसद्विवेकवैकल्यकवलितमतिर्लोक इत्यर्थः । अत एव, मिरिमृत्स्नाम्-गिरेः पर्वतादेरुपलक्षणत्वादाकरादे मृत्स्ना लोके उत्तमतया दुर्लभतया च स्वीकृतत्वाच्छुभां मृत्तिका सुवर्णादिरूपाम् , सुवर्णादिकं पार्थिवमेव न तु तैजसमिति स्याद्वादिनयेनेत्थमुक्तिरिति बोध्यम् । धनम्-धिनोति लौकिकार्थोपार्जनेन प्रीण-. यतीत्यन्वर्थतया धनपदवाच्यम् , पश्यन्-जानन् । सुवर्णादिना बभीष्टं लौकिक वस्तु क्रयादिना सौकर्येण सुलभं लोके । इन्द्रियमोहितानाञ्च लौकिकार्थेनैवाऽर्थ इत्यतो गिरिमृत्स्नामेव तादृशा र्थोपायत्वाद्धनं जानन्नित्यर्थः । गिरिमृत्स्नेति पदेन तद्धनं मृत्तिकैव नतु सारं किञ्चिदिति तस्याऽतितुच्छत्वं ध्वन्यते । तेन चेन्द्रियमोहितस्य शोचनीयत्वमिन्द्रियाणां च बुद्धिव्यामोहमूलत्वान्महा. नर्थकरत्वं च धन्यते । धावनि-तदुपार्जने कालक्षेपमसहिष्णुः सद्य एव प्रवर्तते । तत्रैव सर्वस्वबुद्धेः परमार्थतो हानिलाभमविचार्यैव तदुपार्जनाय सहसा प्रवर्तत इत्यर्थः । अत एव, पाचसमीपे, स्वात्मन्येव, स्थितमित्याल्लभ्यते । ज्ञानम्-सम्यग् ज्ञानम् , तदाख्यम् , तद्रूपमित्यर्थः । येन मृत्तिकायां तद्बुद्धिस्तादृशं वस्तुयाथात्म्यप्रकाशकत्वेन सदसत्त्वग्राहकतया हेयोपादेयविवेकात्मक परमपुरुषार्थोपयोगितया लौकिकधनापेक्षयाऽत्युत्कृष्टमतिदुर्लभमपि पार्थे स्थितत्वात्सुलभमिति भावः । आत्मस्वभावभूतं शुद्धं चैतन्यमिति वा, तदेव विशिष्टि-अनादिनिधनम्-न आदिनिधनं नाशश्च यस्य तत्तादृशम् , अनाद्यनन्तमित्यर्थः । तादृशस्य ज्ञानस्य शुद्धात्मस्वरूपभूतत्वादात्मनोऽनाद्यनन्तत्वातस्याऽपि तत्त्वम्।
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy