________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते.
सत्तारूपेण ताशस्य ज्ञानस्य सर्वाऽवस्थायामेवाऽऽत्मनि सत्त्वस्य श्रुते प्रतिपादनात् । ज्ञानावरणसत्त्वे न तत्प्रकाश इत्यन्यदेतदिति भावः । धनम्-शाश्वताऽखण्डतृप्तिपदत्वात्परमार्थतो धनपदवाच्यम्, न-नैव, पश्यति-जानाति । अनेन 'हा ! इन्द्रियमोहितमि' ति शोको व्यज्यते । ज्ञानधनेऽनादिनिधनविशेषणेन च गिरिमृत्स्नाधन मनित्यमिति सूच्यते । एवञ्चेन्द्रियाणां दृष्टिव्यामोहद्वारा महानर्थहेतुत्वात्तज्जयाय सर्वदा सर्वथा च प्रयतनीयं प्रमादं विहायेति तात्पर्यम् ।। ५ ।।. .
इन्द्रियाणि दृष्टिव्यामोहद्वाराऽनर्थमूलानीति शिष्यमतिदाढायोक्तमेवाऽथे प्रकारान्तरेण पुनराहपुरः पुरः स्फुरत्तृष्णा मृगतृष्णाऽनुकारिषु । इन्द्रियाऽर्थेषु धावन्ति त्यक्त्वा ज्ञानाऽमृतं जडाः ॥ ६ ॥
पुर इति । जडाः-अज्ञानिनः, इन्द्रियमोहिता इति हृदयम् । अत एव, पुरःपुर:-उत्तरोत्तरम् , स्फुरत्तष्णा:-स्फुरन्त्यो विकास प्रादुर्भावं गच्छन्त्यस्तृणाः कामा विषयाऽभिलाषा येषां ते तादृशाः, वर्धमानकामाः सन्त इत्यर्थः । जितेन्द्रियस्य ज्ञानिनम्तु नैव कामस्फूर्तिः, कारणाऽभावादिति भावः । इन्द्रियार्थेषु-इन्द्रियाणामर्थेषु विषयेषु रूपरसादिषु तत्साधनेषु सुवर्णादिषु च विषये, मृगतृष्णाऽ. नुकारिषु-मृगतृष्णा मरीचिका प्रीष्मे जलभ्रमकारिणी मध्याह्ने निर्जलपदेशे जलपूरवदृश्यमाना सूर्यकिरणतापजनिता भूमे. रूष्मसन्ततिः, तामनुकुर्वन्तीति तेषु मृगतृष्णातुल्येषु, यथा हि