________________
भद्रङ्करोदयाख्यव्याख्याविभूषिले
परामुखम्-भवो दुःखबहुलत्वाद्बन्धनसाधनत्वाच्च कारेव, तत्र बासः स्थिति-स्ततः पराङ्मुखं विमुखम् , दुःखमयत्वादिकं समीक्ष्य संसारवासविरक्तमित्यर्थः आत्मानम्-जीवम् , विषयैः- लक्षणया विषयेच्छारूपैः, पाशैः-बन्धनसाधनरज्जुरूपैः. निबध्नन्तिबद्धवस्ववशं कुर्वन्ति, भवकारायामेव यथाऽवतिष्ठते नतु बहिर्निगच्छतीति भावः । यथा हि ज्ञो भृत्याश्चौरादीन् स्वयं कारावासमनिच्छूनपि पाशैर्बध्नन्ति, बलाच्च कारायां निक्षिपन्ति, तथा मोहप्रभावात्तदनुकूलप्रवृत्तिमन्तीन्द्रियाणि भवबिरक्तमप्यात्मानं विषयभोगेच्छया कृत्वा भवे एव क्षिपन्तीत्यर्थः । विषयभोगेच्छया हि भवे रजत्यात्मा, सा चेन्द्रियेष्ववशेषु भवति, इन्द्रियाणां विषयेषु प्रवृत्तेः स्वाभाविकत्वात् । तस्मान्मोइजयेनेन्द्रियाणि जेत. व्यानि । विषयेषु मोहे सत्येवेन्द्रियाणां तदनुधावनम् । मोहे च राजनीव जिते राजपुरुषा इवेन्द्रियाण्यपि जितान्येव भवन्तीति मोहत्यागद्वारेन्द्रियजयः साधनीय इतीन्द्रियजयरीतिरपि प्रदर्शितेति बोध्यम् ॥ ४॥
शिष्यस्येन्द्रियजये प्रवृत्तिर्यथा स्यादितीन्द्रियाणामनर्थमूलत्वं प्रतिपिपादयिषुगदी तेषां दृष्टिव्यामोहकरत्वमाह
गिरिमृत्स्नां धनं पश्यन् धावतीन्द्रियमोहितः ।
अनादिनिधनं ज्ञानधनं पार्श्व न पश्यति ॥ ५ ॥ ... गिरिमृत्स्नामिति । इन्द्रियमोहितः-इन्द्रियैः कृत्वा मोहितो मूढ़ता प्रापितः, इन्द्रियग्राह्यविषयव्यासजव्यग्रमना हेयोपादेय