________________
ज्ञानसारे इन्द्रियजयाऽष्टकम्
૭
अतः;
समुद्रपक्षे पूर्णः, न-नैव, भवतीति शेषः । यथा समुद्रो नदी - सहस्रजलेनाऽहर्निशं पूर्यमाणोऽपि पूर्णो न भवति, तथाऽइर्निशं क्रियमाणेन विषयभोगोपभोगेनेन्द्रियग्रामस्तृप्तो न भवतीत्यर्थः । यदुक्तम् - " न यातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाऽभिवर्धत " एवाऽभिवर्धत " इति । आत्मना - आत्मस्वरूपानुभवात्मकेन सम्यग्ज्ञानसहितेन शमादिना, आत्ममग्नतामात्रेण वा अन्तः - आत्मनि शुद्धचिदात्मनीत्यर्थः । तृप्तः - तदेकमग्नत्वादुपशान्ततृषः, भव । यो हि दुस्तर्पस्तत्तर्पणप्रयासैरलम्, तुषऋण्डनवद्धि तत् । आत्मा तु सम्यग्ज्ञानादिना झटित्येव तृप्यतीति तदेवाऽनुतिष्ठ । आत्मनि च तृप्तेनेन्द्रियतृयादिभिः प्रयोजनम्, इन्द्रियाणां तदानीं स्ववशत्वात् । यदुक्तम्- " आत्मन्येवाऽऽत्मना तुष्टः स्थितप्रज्ञस्तदोच्यते " इति, "मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः !" इति चेति भावः ॥ ३ ॥ नन्वात्मा विषयविमुखश्चेदल मिन्द्रियजयप्रयासेनेति शिष्यव्यामोहं निराकर्तुमाह
आत्मानं विषयैः पाशैर्भववासपराङ्मुखम् । इन्द्रियाणि निबध्नन्ति मोहराजस्य किङ्कराः ॥ ४ ॥
आत्मानमिति । मोहराजस्य - मोहोऽस्वे स्वबुद्धिरेव चौरादीनामिवात्मनो राजेव निग्राहकत्वाद्बन्त्राद्यधिकृतत्वाद्वाजा, तस्य । किङ्कराः - भृत्या इव तद्वदनुजीवित्वादनुकूल करत्वाच्चाऽऽज्ञाकारिण इव ते तादृशाः । इन्द्रियाणि चक्षुरादीनीन्द्रियाणि, मंत्रवास