________________
भद्रकरोदयाख्यव्याख्याविभूषिते
सम्मोहात्मकमचैतन्यम् , यच्छन्ति-ददति, फलन्तीति यावत् । तृष्णावद्भिरिन्द्रियैः कृत्वा जलपूर्णैरालवालवृक्षा इव विकारा वर्धन्ते, विषफलानीव महामोहं फलन्ति चेत्यर्थः। अजितीन्द्रियैः कृत्वा विकारविकृतो महामोहाक्रान्तो भवानन्त्यं यातीतीन्द्रियाण्यवश्यं यथातथा जेतव्यान्येव, अन्यथा महामोहसम्प्राप्त्यादिमहाननर्थः । इन्द्रियजये तु विकारनाशान्मोहनाश इति शमो मुक्तिश्च । यदुक्तम्-" तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ! । पाप्मानं प्रजहीह्येनं ज्ञानविज्ञाननाशनमि "ति । वक्ष्यति चाऽऽ. त्रैव-"प्तङ्गभृङ्गमीनेभसारङ्गा यान्ति दुर्दशाम् । एकैकेन्द्रियदोषा. च्चेढुष्टैम्तः किन पञ्चभिरि"ति चेति भावः ॥ २ ॥
किञ्चेन्द्रियाणि दुराराध्यानीत्यतोऽपि तज्जयाय प्रयतेतेति शिष्यमुपदिशन्नाह
सरित्सहस्रदुषपुरसमुद्रोदरसोदरः । वृप्तिमान्नेन्द्रियग्रामो भव तृप्तोऽन्तरात्मना ॥३॥
सरिदिति । इन्द्रियग्राम:-इन्द्रियसमूहश्चक्षुरादीनीन्द्रियाणि, सरित्सहमदपूरसमुद्रोदरसोदरः-सरितां नदीनां सहस्राणि तैरपित कृत्वा पूर्यमाणेन जलेनाऽपि दुःखेन पूर्यत इति तत्तादृशं पूरयितुमशक्यं यत्समुद्रस्य मुखेन निक्षिप्यमाणानामन्नादीनां पात्रमुदरमिव जलानां निधानत्वादुदरं मध्यम् , अर्थात्समुद्र एव, लोकरूयैव समुद्रोदरेत्युक्तिः। समुद्रेत्युक्त्यै वेष्टार्थसिद्धेरिति बोध्यम् । तस्य सोदरः सदृशः, तद्वदित्यर्थः । तृप्तिमान्-तृप्तः, शान्ततृषः ।