________________
ज्ञानसारे शमाष्टकम्
अत एव शमिनः सर्ववैलक्षण्यं शिष्यस्य तत्कामनयाऽपि
प्रवृत्तिमिच्छन्नाह -
દર
स्वयम्भूरमणस्पर्धिवर्धिष्णुसमतारसः ।
मुनिर्येनोपमीयेत कोऽपि नाऽसौ चराचरे ॥ ६ ॥ स्वयम्भूरमणेति । स्वयम्भूरमणस्पर्धिवर्धिष्णुश मतारमःस्वयम्भूरमणस्तदाख्यः सर्वान्तिमः सर्वद्वीप सागरेभ्योऽपि महाविस्तारो ऽर्धरज्जुप्रमाणो जलधिस्तं स्पर्धतेऽतिप्रचुरत्वाद्वर्धिष्णुत्वाच्चाऽभिभवितुमिच्छतीत्येवंशीलो वर्धिष्णुर्बुद्धिस्वभावः, उपचीयमानों नाऽपचीयमानः स्थिरो वा । अत एव स्पर्धते इति बोध्यम् । तादृशः, समता चतुर्थयोगात्मकः शम एव रस्यमानत्वाद्रुचिविषयीक्रियमाणत्वान्निरतिशयतृप्तिप्रदत्वाच्च रसो यस्य स तादृशः, सर्वोत्कृष्टशमरसाकर इत्यर्थः । मुनिः, येन यत्प्रकारेणोपमानेन, उपमीयेतसदृशीक्रियेत, असौ - तादृशः कोऽपि एकोऽपि, अपिना बहूनां तु कथैव केति सूच्यते । चराचरे-स्थावरजङ्गमात्मके सकले जगति, न-नास्ति। लोकदुर्लभसमतागुणविशिष्टतया शमी लोकविलक्षण इति सर्वलोकोत्कर्षलाभमनसाऽपि लोकानां शमसाधने प्रवृत्तिरवश्यविधेयेति हृदयम् । शमी शमिनैव तुल्यो नाऽन्येन केनाऽप्यन्यस्य सर्वस्य तदपेक्षया हीनगुणत्वादित्यनन्वयाऽलङ्कारो ध्वन्यते ।। ६ ।।
.
ननु भवतु शमस्तादृशः, किन्तु रागादिग्रस्त मनसामस्मादृशां सोऽतिदुर्लभ एव। तत्पूर्व भाविज्ञानादेरपि दुर्लभत्वादिति खिन्नं शिष्यमुपसान्त्वयन् सुकरं रागादिपरिहारप्रकारमाह