________________
भद्रङ्करोदयाख्यव्याख्या विभूषिते
न केवलं शमाद्दोषनाशः, किन्तु गुणप्रकर्षोऽपीति शिष्य - प्रवृत्तये शमाऽर्थवादमाह
६
ज्ञानध्यानतपः शीलसम्यक्त्वसहितोऽप्यहो ! | issa गुणं साधु र्यं प्राप्नोति शमाऽन्वितः ॥ ५ ॥
ज्ञानेत्यादि । साधुः - मुमुक्षुर्यति गृहीतचारित्रो वा, ज्ञानध्यानतपःशील सम्यक्त्व सहितः - ज्ञानं तत्वज्ञानं निर्वाणपदभावनात्मकं मुष्टिज्ञांनरूपम्, ध्यानमईदादौ ध्येचे सदृश चित्तवृत्तिपरम्परा, ध्येये स्थिरा चित्तवृत्तिरिति यावत् । तपो रागादिजयार्थमनशनादिरूपं, शीलं ब्रह्मचर्यमुपलक्षणत्वात्साधूनामाचारः, सम्यक्त्वं तत्त्वश्रद्धानं, तैः सहितः समन्वितः । ज्ञानादिगुणसमग्र इत्यर्थः । अपिना - तद्रहितस्य तु कथैव केति सूच्यते । तम् - तादृशम्, गुणम्-लाभम्, नाssप्नोति, यम्- यादृशम्, कर्मक्षयरूपं केवलज्ञानादिरूपं परमदानां दिलब्ध्यादिरूपं च गुणमिति सम्बध्यते । शमान्वितः - निरीहतया स्वभावमात्रस्थतया च सम्पन्नः सन्, साधुरिति विशेष्यं सम्बध्यते । ज्ञानादिभिः सहितो रहितो वेत्यर्थबाल्लभ्यते । प्राप्नोति । अहो - ज्ञानादीनामपेक्षया शमस्य प्रकृष्टगुण हेतुत्वा तेभ्यः शमस्यैवोत्कर्षः केवलस्याऽपीत्याश्चर्यमित्यर्थः । एवंश्च तादृशशमलामायाऽवश्यमेव यतनीयं प्रेक्षावद्भिरिति हृदयम् । ज्ञानादिभिः शमलाभतश्च कर्मक्षयादिफललाभ इति शमः साक्षाद्धेतुर्ज्ञानादीनि च परम्परयेति ज्ञानादीनां तादृशं गुणं प्रति केवलानां बन्ध्यत्वाच्छम एवं प्रधानमिति भावः ॥ ५ ॥
BA