________________
भद्रकरोदयाख्यव्याख्याविभूषिते
शमसूक्त सुधासिक्तं येषां नक्तन्दिनं मनः । कदापि ते न दन्ते रागोरगविषोर्मिभिः ॥ ७ ॥ शमसूक्तेति । येषाम् यत्प्रकाराणां साधकानाम्, मनःचित्तम् । नक्तन्दिनम् - अहोरात्रम्, सन्ततमित्यर्थः । शमसूक्तसुधासिक्तम् - शमस्य उक्तप्रकारशमरसवर्णनात्मकत्वाच्छम सम्बन्धीनि यानि सूक्तानि सुभाषितानि आगमादिषूक्तानि तानि सुधा रागोरगविषोर्मिप्रसर प्रतिरोधकत्वादमृतमिव तैः सिक्तमार्द्रीकृतमिव, तदभ्यासादिपरायण मित्यर्थः । ते तत्प्रकाराः शमसूक्त सुधासिक्त - चेतसः, रागोरगविषोर्मिभिः- राग उपलक्षणत्वादन्तर्म मात्रम्, तदेवोरग विषोर्मयः सम्यग्ज्ञानादिरूपचैतन्याऽपहारकत्वात्सर्पविषावेगा इव, तैः । कदापि जातुचित्, स्वस्य शमसाधनाद्यशक्कावपि । न - नैव, दह्यन्ते - परिभूयन्ते । सुधासिकस्य विषेणाऽपराभव उचित एव । एवं च येन शमसाधनं दुष्करम् तेन सुलभानि सुकराणि च शमसूक्तान्येवाऽभ्यसनीयानि, तावताऽपि रागादिदोषप्रमोष इति मम शमो दुर्लभ इति कथं ममोद्धार इति नैव खेदः कार्यः । एवं च शमो महामहिमा, यो वचनमात्रेणाऽप्यभीष्टप्रद इति सोऽवश्यं सर्वथैव साधनीय इति भावः ॥ ७ ॥
"
६२
ननु शमसूक्ताऽभ्यासेनैव रागादिपरिहार इत्यलं शमेनेति चेन्न । शमिन एव ज्ञानादिसम्भवादिति शिष्यमुपदिशन्नुपसंहरति
गर्जज्ज्ञानगजोत्तुङ्गरङ्गध्यानतुरङ्गमाः ।
जयन्ति मुनिराजस्य शमसाम्राज्यसम्पदः ॥ ८ ॥ इति महामहोपाध्याय श्रीयशोविजयोपाध्यायविरचिते ज्ञान
सारे शमाष्टकं नाम षष्ठमष्टकम् ॥ ६ ॥
-