________________
ज्ञानसारे शमाऽष्टकम्
तद्रूपेणांशेन भागेन-द्रव्यात्मकेन कृत्वा, समम्-तुल्यम् , अविषममित्यर्थः । जगत्-लक्षणया प्राणिमात्रम् , आत्माऽभेदेन-निजाऽऽत्माभिन्नतया, ब्रह्मांऽशेनाऽत्यन्तसादृश्यादमेदाऽऽरोपानिजात्मतादात्म्येनेति यावत्। पश्येत्-जानीयात् । कर्मकृतवैषम्यस्याऽतात्त्विकस्य व्यवहारनयाऽभिमतस्य सत्त्वेऽपि निश्चयनयेन न वैषम्यम् । सनहनयाऽभिमतस्याऽऽत्मद्रव्यस्य शुद्धचिद्रूपस्य सर्वत्रैव समानत्वात् । एवञ्च द्रव्यपर्यायोभयात्मकस्याऽऽत्मनः पर्यायांशेन वैषम्यसत्त्वेऽपि द्रव्यरूपब्रह्मांशेन वैषम्याऽभावात्तेन रूपेणाऽमेद एवेति ज्ञानिनः शमवतो विकल्पविषयोत्तीर्णत्वात्स्वभावालम्बन. त्वाच्च जीवेष्व मेदाऽवभासिन्येव मतिरिति तात्पर्यम् । यदुक्तम्"विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ” इति । असौ-ताशमतिमान् निश्चयनयदृष्टिः, मोक्षं गमी-मोक्षं प्राप्स्यति । गमीति भविष्यदिन् प्रत्ययः, अत एव न षष्ठीति बोध्यम् । शमलाभात्कर्मकृतोपाधिदृष्टिविलयः सर्वाऽऽत्माऽभेदाऽवमासश्च, ततश्च मोक्षलाभ इति सारार्थः । यदुक्तम्-" इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः। निर्दोषं हि समं ब्रह्म तस्माद्रमणि ते स्थिताः" इति ॥ २ ॥
ननु यदि शमादेव मोक्षस्तर्हि विविधबाह्यक्रियायाः शास्त्रप्रतिपादितायाः क उपयोग इति शिष्यशङ्कां समाधत्ते
आरुरुक्षुर्मुनिर्योगं श्रयेद् वाह्यक्रियामपि । योगारदः शमादेव शुद्धथत्यन्तर्गतक्रियः ॥ ३ ॥