SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ५६ भद्रकरोदयाख्यव्याख्याविभूषिते मात्रविषय इत्यर्थः । विकल्पविषयत्यागे सति स्वभावादन्यस्य ज्ञानाविषयत्वात्, तारस्याऽन्यस्य कस्यचिद्विषयस्याऽभावादिति बोध्यम् । परिपाकः - परिणामः सः - तादृशः परिणाम एव, शम:शमशब्दवाच्यः परिकीर्तितः- प्रतिपादितः, तज्ज्ञैरिति शेषः । परिणामश्च सम्यग्ज्ञानादिजनित इत्यन्यदेतत् । निर्विकल्पाऽऽत्मस्वरूपाऽवभासः शम इति निष्कर्षः । तादृशशमला मे निरतिशयसुखलाभः, लौकिक सुखस्य तत्र मानाऽसम्भवादिति शम एव सर्वप्रयासेन साधनीयः, यद्वक्ष्यति - " असौ मोक्षं गमी शमी" ति भावः ।। १ ।। शिष्यप्रबोधाय शमात्परमानन्दमय मुक्तिला भे प्रकारमाहअनिच्छन कर्मवैषम्यं ब्रह्मांशेन समं जगत् । आत्माऽभेदेन यः पश्येदसौ मोक्षं गमी शमी ||२|| GUS " अनिच्छन्निति । यः - यत्प्रकारः, शमी-उक्तलक्षणशमसमन्वितः, निरीहः स्वभावमात्रविश्रान्तबुद्धिर्जीव इत्यर्थः । कर्मवैषम्यम् - कर्मभिः शुभाशुभरूपैर्ज्ञानावरणीयादिभिः कृतं यद्वैषम्यमसादृश्यं गोत्रसंस्थानादितारतम्यं तत् अनिच्छन् - अस्वीकुर्वन् । कर्मवशतो हि जीवस्योच्च नीच गोत्रत केन्द्रियत्वादिश्व, तैरेवोपाधिभिः कृत्वा च जीवानां परस्परमसा दृश्यम् । तच्च कर्मकृतत्वात्कुत्रिमं न तु वास्तवमित्यतो ज्ञानिनः शमिनस्तन्न स्वीकार्यम्, वस्तुपरमार्थप्रतिपतेरेव ज्ञानफलत्वादिति भावः । ननु तर्हि किं प्रतिपत्तव्यमित्यपेक्षायामाह - ब्रह्मांशेन ब्रह्म निरुपाधिकः शुद्ध चिन्मय आत्मा,
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy