________________
ज्ञानसारे शमाऽष्टकम्
सर्वविलक्षणं ज्ञानम् । यदुक्तम्-" नहि ज्ञानेन सदृशं पवित्रमिह विद्यत" इति । तदिदमवश्यमुपार्जनीयमिति हृदयम् । विरोधाभासोऽलङ्कारः ॥ ८ ॥
इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्न-पन्यास-प्रवर. श्रीमद्यशोभद्रविजयजीगणिवर-शिष्य-पन्न्यासश्रीशुभङ्करविजयगणिविरचितायां भद्रङ्करोदयाख्यव्याख्यायां ज्ञानाऽष्टकं नाम पञ्चममष्टकम् ॥५॥
॥शमाऽष्टकम् ॥ ज्ञानं तन्महिमानं च श्रुत्वा जातश्रद्धस्य शिष्यस्य ज्ञानजनितानन्दे द्वारजिज्ञासां समाधातुं 'ज्ञानफलं विरति 'रिति प्रसङ्गाच्च शमं निरूपयन्नाह----
विकल्पविषयोत्तीर्णः स्वभावाऽऽलम्बनः सदा। ज्ञानस्य परिपाको यः स शमः परिकीर्तितः ॥ १॥
विकरुपेति । ज्ञानस्य-निर्वाणपदभावनात्मकस्य मुष्टिज्ञानात्मकस्य, न तु ध्यानध्यात्मकस्य । राहोः शिर इतिवदभेदे षष्ठी। ज्ञानात्मक इत्यर्थः । नहि ज्ञानात्तत्परिणामो भिन्न इत्यवधेयम् । यः-यादशः, विकल्पविषयोत्तीर्ण:-विकल्पः सङ्कल्पो विषयाऽभिलाषादिरूपः, तस्य विषयेभ्य उत्तीर्णोऽपेतः । यदभिलष्यते तद. विषयक इत्यर्थः । निष्कामतात्मक इति यावत् । ज्ञानस्य सविषयत्वनियमादाह-सदा-सर्वदा, न तु यदाकदाचिदेव । स्वभावालम्बन:-स्वस्य शुद्धात्मनो यो भावः पर्यायः शुद्धचिन्मयत्वादिस्तदेवाऽऽलम्बनं विषयो यस्य स ताहशः । स्वद्रव्यगुणपर्याय