________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
मचिरेणाऽधिगच्छती"ति। "ज्ञानाऽग्निः सर्वकर्माणि भस्मसास्कुरुतेऽर्जुन " इति चेति भावः । परम्परितरूपकाऽनुप्राणितोपमाऽलङ्कारः ॥ ७ ॥
सम्प्रत्युपसंहरन् ज्ञानमहिमानमाहपीयूषमसमुद्रोत्थं रसायनमनौषधम् ।
अनन्याऽपेक्षमैश्वर्य ज्ञानमाहुर्मनीषिणः ॥ ८॥ इति महामहोपाध्यायश्रीमद्यशोविजयोपाध्यायविरचिते ज्ञानसारे ज्ञानाऽष्टकं नाम पञ्चममष्टकम् ॥५॥ - पीयूषमिति । मनीषिणः-ज्ञानतत्त्वज्ञा ज्ञानिनः, ज्ञानम्उक्तप्रकारं ज्ञानं कर्म, असमुद्रोत्थम्-समुद्रोत्पन्नविलक्षणम् , देवासुरैर्हि मथित्वा समुद्रात्पीयूषं लब्बमिति पौराणिकाः । पीयूषम्अमृतम् , लक्षणया तत्तुल्यम् । तद्धि देवत्वमात्रमर्पयति, इदं तु मुक्तिम् । न च समुद्रादुत्पन्नम् , अतः पीयूषमिवेति पीयूषस्याऽसमुद्रोत्थत्वं न विरुध्यते । तथा, अनौषधम्-औषधविलक्षणम् , रसायनम्-सिद्धसुवर्णादिभस्मकल्पितं स्वनामख्यातं रसायनं तदिव धर्मशरीरपोषकत्वान्मिथ्यात्वादिरोगनिवारकत्वाच्च । रसायनमिवेति गौणार्थत्वे रसायनस्याऽनौषधत्वं न विरुध्यते । तथा, अनन्यापेक्षम्-नाऽन्यद् हस्त्यश्वादिवस्त्वपेक्षत इति तादृशम् , अन्यापेक्षारहितमित्यर्थः । ऐश्वर्यम्-महर्द्धिस्वामित्वमिव । ज्ञानेन हि सर्वाः सिद्धयो लब्धयश्च स्वक्शा जायन्ते, न च तत्र किमप्य. न्यदपेक्ष्यते इति भावः । आहु:-कीर्तयन्ति, ऐश्वर्यस्याऽनन्यापेक्षत्वमिहाऽपि गौणलक्षणया न विरुध्यत इति ध्येयम् । तदेवं