SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे ज्ञानाऽष्टकम् ५३ " याथात्म्यमाहिमतिविपर्यासहेतुभूतं कर्म, तत्परिणामापन्नं मत्यज्ञानादिकं च तदेवाऽतिगुरुत्वाद्दुर्लबध्यत्वाच्छैलः पर्वतः, तस्य गतिसहायत्वादसद्भूतोद्भावनसद्भूताऽपलापपरिणामौ पक्षाविष, तौ छिनति समूलं नाशयति, यथा न पुनर्गतिः स्यादिति तादृशः । मिथ्यात्वनाशक इति यावत् । छेदे हेतुगर्भं विशेषणमाह-ज्ञानदम्भोलिशोभितः - ज्ञानमेव मिथ्यात्वशैलपक्षच्छेदकस्वादम्भोलिर्वज्रं तेन शोभितो विराजितः । मुष्टिज्ञानसम्पन्न इति यावत् । " ह्रादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः । शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयो "रित्यमरः । अतएव, निर्भय :- मिथ्यास्वपर्वताक्रमण भयशून्यः । योगी - शुभध्यानादियोगपरिणतः साधुः, शक्रवत् - इन्द्रवत्, आनन्दनन्दने-आनन्दः परमानन्द आत्मस्वभावात्मकः, स एव नन्दनं स्वनामख्यातं दिव्यमुद्यानं, यत्र दुःखवार्त्ताऽपि नास्ति, तस्मिन् । यद्यपि शुद्धात्मस्वभावभूताऽऽनन्दाऽपेक्षया नन्दनस्यापकर्षः, तस्य विषयजाऽऽनन्द हेतुत्वात्, तथाप्यात्माऽऽनन्दस्य प्रकारान्तरेणाऽनिर्वचनीयत्वादुपलक्षणतया लोकपरिचयार्थं तादृशं रूपकमित्यवगन्तव्यम् । नन्दति - रमते । यथा शक्रो वज्रेण पर्वतपक्षच्छेदं विधाय पर्वतेन संहारसम्भावनाया अप्यभावान्निर्भयः सन्नन्दने नन्दति, तथा योग्यपि ज्ञानेन मिथ्यात्वमुन्मूल्य तदतिक्रमणसम्भावनाविरहान्निर्भयः शाश्वताऽखण्डमानन्दमनुभवति । तादृशे ज्ञाने लब्धे न पुनर्मिथ्यात्वोन्मेषः कदापीति तत्त्वोद्भेदादात्मसाक्षात्कार एव जायत इति महदिष्टसाधनं तज्ज्ञानमवश्यमुपार्जनीयम् । यदुक्तम्- " ज्ञानं लब्ध्वा परां शान्ति
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy