________________
भद्रकरोदयाख्यव्याख्याविभूषिते
आरुरुक्षुरिति । योगम्-समाध्याख्यं ब्रह्मसाक्षात्काररूपमात्माऽमेदात्मकं समतेत्यपरपर्यायं चतुर्थ योगम् , आरुरुक्षुःआरोदुमिच्छुः, प्रेप्सुरित्यर्थः । मुनि:-योगार्थ कृतश्रमो यतमानश्च यतिः, बाह्यक्रियाम्-वाह्याम् बहिः शरीरसाध्यत्वेन बहिर्भवां क्रियामावश्यकादिकामपि, अपिनाऽन्तर्गतक्रियासमुच्चयः । श्रयेत्अनुतिष्ठेत् , तस्या योगाऽऽरोहणसाधनरूपत्वात् । अन्यथा ह्यारोहणयोग्यतैव विलीयेतेति भावः । यावद्धि न समाधिमान् भवति, तावत्तत्प्राप्तये शास्त्रोपदिष्टामावश्यकादिक्रियां कुर्यात् । ननु योगारूढस्य तर्हि कथमित्यपेक्षायामाह-योगारूढः-योगं समाधियोग. मारूढः प्राप्तः, मुनिरिति विशेष्यं सम्बध्यते । सन्निति शेषः । अन्तर्गतक्रियः-अन्तर्गता स्वभावमात्राऽऽलम्बनत्वाद्वहिःसाधनाऽसाध्यत्वादन्तःकरणमात्रसाधनत्वादन्तःस्थिता क्रिया समतावृत्त्यादिरूपा सहजवीर्यगुणप्रवृत्तिरूपा वा यस्य सं तादृशः, बाह्यावश्यकादिक्रियारहितो मनोमात्रसाधनध्यानादिक्रियावान् । एतच्च स्वरूपकथनम् , योगारूढ ईदृश एव भवतीति बोध्यम् । शमात्पूर्वोक्तप्रकारान्निष्कामतादिरूपाज्ज्ञानपरिणामादेव, न तु तस्य साधनान्तरमेष्टव्यमित्येवकारेण सूच्यते । आरोहे हि साधना. ऽऽवश्यकता, आरूढस्य तु तास्थ्यमात्रमपेक्ष्यते, तदाह-शुध्यतिविकल्पादिकालुण्यरहितो भवति, मुच्यते इति यावत् । यदुक्तम्" आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते " इति । समाधिस्थस्य न बाह्या क्रियाऽपेक्ष्यते, शम एव तस्य सर्वा क्रियेति बाह्यक्रियाया योगारोहणं