SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५० भद्रकरोदयाख्यव्याख्याविभूषिते वादादिरूपमनिष्टमेवाऽधिकं फलमिति ज्ञानाधिक्यं हेयमेवेति तात्पर्यम् । तिलपीलकदृष्टान्तेन च वादप्रतिवादपरायणानां तस्येव जाड्यमपि ध्वन्यते, फलाऽभावाज्ज्ञानस्य जाड्याऽविशेषादिति बोध्यम् ॥ ४ ॥ नन्वेवं तर्हि स्वभावलाभसंस्कारकारणं ज्ञानमुपदिश्यतामिति शिष्यभावं तन्मौनितयाऽनुमायाऽऽह स्वद्रव्यगुणपर्यायचर्या वर्या पराऽन्यथा । इति दत्ताऽऽत्मसन्तुष्टिसृष्टिज्ञानस्थितिर्मुनेः ।। ५ ॥ स्वेति । मुनेः-आत्मविषयमननप्रवृत्तस्य साधोरन्यस्याऽपि च तादृशस्य, इति-एवंप्रकारेण, दत्तात्मसन्तुष्टि:-दत्तोपलम्भिताऽऽत्मनः सन्तुष्टिः सन्तोषोऽधिकाऽनिच्छा यया सा तादृशी । इतोऽधिकेन न प्रयोजनम् , एतावदेवाऽतिबहित्येवमात्मनोऽव्यप्रतासम्पादिकेत्यर्थः । मुष्टिज्ञानस्थिति:-मुष्टिलक्षणया मुष्टिमेयम् , तेन रूपेण । सझेपेणेत्यर्थः । तथाभूतं यज्ज्ञानं रहस्यज्ञानम् , ज्ञानसार इति समुदितार्थः । तस्य स्थितिमर्यादा, भवतीति शेषः । एतावता ज्ञानेनैव मुनेरात्मपरितोषो जायते, तस्याऽऽत्ममात्राऽभिलाषादात्मनश्च तावता ज्ञानेनैव लाभसम्भवादिति भावः । नन्वितीति किमिति चेत्तत्राह-स्वद्रव्यगुणपर्यायचर्या-स्वमात्मीयं यद्व्यं निश्चयनयाऽभिमतं निरुपाधिकं शुद्धात्मद्रव्यम् , गुणो दर्शनज्ञानचारित्ररूपः । पर्यायोऽसहभूरर्थपर्यायः, सहभूर्यावद्दव्यभावी च व्यञ्जनपर्यायश्च, द्रव्यगुणाऽऽश्रितधर्म समूह इति यावत् ।
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy