________________
ज्ञानसारे ज्ञानाऽष्टकम्
,
-
वादांश्चेति । अनिश्चितान् - इदमित्थमेवेत्येवं प्रमाणैरनिर्धारितान् नहि निर्धारिते वादप्रतिवादाविति भावः । वादान्वस्तुत्पादव्ययत्रौव्यात्मकमिति क्षणिकं सर्वमिति मधूकोदकगुडादिभ्यो मदवद्भूतेभ्य एव चेतनोत्पत्तिरित्येवमादिप्रकारान् पूर्वपक्षान्, प्रतिवादान् - नैकं त्रयात्मकं विरोधादिति, न वा सत् क्षणिकमननुभवादिति, नाऽपि भूतेभ्यश्चेतनोत्पत्तिस्तेषु चैतन्या - भावान्मधुकादिषु पुनर्मदशक्तेः सत्त्वादित्याद्युत्तरपक्षान् चद्वयं समुच्चये । वदन्तः - अनेकशास्त्राऽभ्यासादिजनितबुद्धिवैभवात्प्रतिपादयन्तः पण्डितम्मन्याः, तथा तेन रूपेण, याथातथ्येन रूपेणेत्यर्थः । तवान्तम्-तत्त्वपारम्, पारमार्थिकं पदार्थरहस्यम्, पदार्थनिर्णयमिति यावत् नैव गच्छन्ति प्राप्नुवन्ति, द्वयोर्ज्ञानाऽधिक्येन तर्काsपरिसमाप्तेरिति भावः । यद्वा-वादांश्च प्रतिवादांश्च तथाऽनिश्चितान्-इदमित्थमेवेत्येवं वादिना प्रतिवादिना वाऽनिर्धारितान्, भ्रूणे तृतीये मासि जीवसम्बन्ध इत्येवमादिपदार्थान् वदन्त इत्येवमर्थः । दृष्टान्तमाह- गतौ-गमने, तिलपीलकवत् - तिलान् पीलयन्ति डलयोरैक्यात्तैलार्थं पीडयन्तीति ते तादृशास्तैलिकबलीबर्दास्त इव । यथा तैलिकबलीवर्दा वृत्ताकारेण तिलपीडनार्थं भ्रमन्तो गतावन्तं न यान्ति तथेत्यर्थः । अन्ताऽप्राप्तिमात्रेण साम्यमत्र बोध्यम् । ज्ञानाधिक्यं विवादायैव भवति, न तु तेन तत्त्वनिर्णयः । तस्मात्तावदेव ज्ञानमिष्टं यावताऽऽत्मतत्त्वाऽवभासो भवति । अत्र ह्यधिकस्याऽऽत्मतत्त्वावभासान्तरायरूपवादप्रति
"
9
"
४९