SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ भद्रकरोदयाख्यव्याख्याविभूषिते " गुणान्तराssधानं तस्य कारणं यावन्मात्रं तावदेव । " सर्वं वाक्यं साऽवधारणमितिन्यायादत्राऽवधारणं गम्यते इति बोध्यम् । ज्ञानम्शास्त्राद्यधिगमः, इष्यते - इष्टम् । उपादेयत्वेनेति शेषः । ननु तावदेव किमितीष्टम् , ज्ञानाऽधिक्ये फलाधिक्यसम्भवादिति चेन्न । तदाह ध्यान्ध्यमिति । तुर्विशेषे । तमेवाह - अतः - उक्तप्रकारं ज्ञानमपेक्ष्य, अन्यत्-भिन्नम्, स्वभावलाभसंस्कार कारणज्ञानाधिकज्ञानमिति मिलितार्थः । ध्यान्ध्यमात्रम् - बुद्ध्यन्धतैव । आत्मस्वरूपप्रकाशनमेव बुद्धेः प्रकाशकत्वम् वादप्रतिवादाद्युपयोगित्वं तस्या अन्धत्वमेव । नहि तादृशेन ज्ञानेन प्रकाशनीयस्याSSत्मनः प्रकाशनमित्यनिष्टाऽनुपयोग्यर्थान्तरप्रकाशनं नाऽन्धत्वादतिरिच्यते । वस्तुतः प्रकाशनीयस्याऽप्रकाशनेनेष्टाऽप्रकाशनात् । अन्धस्वेऽपि हीष्टाऽप्रकाशनमिति सुष्ठकं' ध्यान्ध्यमात्रमिति । ननु ज्ञानमनिष्टमित्यति नवीनमुच्यत इति चेन्न । मदभिप्रेतस्याऽर्थस्य प्राचा. व्यभियुक्तेन समर्थनादित्याह तथा मदुक्तानुगुणमेव, महात्मना- महान् हेयोपादेय विवेक विशेष परिष्कृतत्वादितरविलक्षत्वादुत्कृष्ट आत्मा यस्य तेन त दृशेन, विशेषज्ञेन पतञ्जलिहरिभद्रसूर्यादि नेत्यर्थः । एतेन तदुक्तौ प्रमाणिकत्वं सूचितम् । महात्मनो युक्तिर्नाप्रामाणिकीति बोध्यम् । उक्तम् - प्रतिपादितम् । चो । । हेती, यतो महात्मनोक्तमतः श्रद्धेयं मद्वच इति भावः ॥ ३ ॥ ननु किमुक्तं महात्मनेति शिष्यजिज्ञासायामाह - वादांश्च प्रतिवादच वदन्तोऽनिश्चितांस्तथा । तस्वान्तं नैव गच्छन्ति तिलपीलकवगतौ ॥ ४ ॥ ४८ -
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy