SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे ज्ञानाऽष्टकम् साध्योपायतया पारमार्थिकत्वात्परमम् ज्ञानम् - ज्ञानशब्दवाच्यम्, तादृशस्यैव तस्य मोक्ष कारणत्वेन प्रतिपादनादिति भावः । उक्तं च" श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्वोपपत्तिभिः । श्रुत्वा च सततं ध्येय एते दर्शनहेतव " इति । एवकारव्यवच्छेद्यं स्वयमेव स्पष्टप्रतिपत्तये आह-भूयसा - बहुनाऽऽगमाद्यधिगमेन भावनाशून्येनं; निर्बन्धः - अभिनिवेशः, बलवदाग्रह इत्यर्थः । नास्ति । विस्त रेणाऽध्ययनमात्रे नाऽऽग्रहः । किन्त्वरूपेऽपि भावनाऽग्रहः । यदुक्तम् - " शास्त्राण्यधीत्याऽपि भवन्ति मूर्खा यस्तु क्रियावान् पुरुषः स विद्वान् । अन्धस्य किं इस्ततलस्थितोऽपि प्रकाशयत्यर्थमिह प्रदीपः ? " इति, " श्रूयन्ते चाऽनन्ताः सामायिकमात्रपद सिद्धा " इति चेति भावः ॥ २॥ ननु ' निर्बन्धो नास्ति भूयसे ' त्यसमञ्जसम् • अधिकस्याऽधिकं फलमित्युक्तेरिति विलक्षं शिष्यमुपलक्ष्यतां निजोति समर्थयन्नाह— स्वभावलाभसंस्कारकारणं ज्ञानमिष्यते । ध्यान्ध्य मात्र मतस्त्वन्यत्तथा चोक्तं महात्मना ॥ ३ ॥ ४७ स्वभावेति । स्वभावलाभसंस्कारकारणम् - स्वभावस्याऽऽत्मस्वरूपस्य सच्चिदानन्दमयत्वस्य लाभाय प्राप्तये, साक्षात्कारायेत्यर्थः आत्मसाक्षात्कारायेति यावत् । आत्मसाक्षात्कारो हि तत्स्वभावसाक्षात्कार एवेति बोध्यम् । यः संस्कारो हेयानां मोहादीनां त्यागेनोपादेयानां श्रवणमननादीनामुपादानेन च निर्मलीकरणरूप
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy