________________
४६
भद्रकरोदयाख्यव्याख्याविभूषिते
इत्यर्थः । विषयाणां विषमपरिणामत्वज्ञानाद्रागादेः श्रेयः-परिपन्थित्वमवधार्य तत्त्याग एव यतत इति सारार्थः । संयतः संयतो भवतीति न्यायेनाऽज्ञोऽज्ञाने ज्ञानी च ज्ञाने रमत इत्युचितमेव । नाsज्ञस्य ज्ञाने ज्ञानिनश्चाऽज्ञाने रतिरित्यज्ञो यत्र रमते तदज्ञानं ज्ञानी च यत्र रमते तज्ज्ञानमिति ताटस्थ्येन ज्ञानाऽज्ञानयोरेष विवेक इति समुदिततात्पर्यम् । उपमालङ्कारः ॥ १ ॥
नन्वागमाद्यधिगमपटवो बहवो न च मोहादिशून्या इति ज्ञानिनो ज्ञाने रतिरित्य श्रद्धेयमिति शिष्यनिर्वेदमाकलय्य नाssगमाद्यधिगममात्रेण ज्ञानवान् किन्त्वल्पाऽक्षरोऽपि निर्वाणपदभावनानिरत एवेत्याह
-
निर्वाणपद मध्येकं भाव्यते यन्मुहुर्मुहुः । तदेव ज्ञानमुत्कृष्टं निर्बन्धो नास्ति भूयसा || २ ||
निर्वाणेति । एकम् - एकमात्रम् निर्वाणपदम् - निर्वाणं मोक्षः, " निर्वाणं निर्वृतिः सुखमि " त्यमरः । तस्य तत्साधनभूतत्वातत्सम्बन्धिपदं सामायिकादिरूपाक्षरसमूहः । एतेनाऽऽगमादेरंशोऽशेनाऽप्यधिगमस्याssवश्यकता सूचिता, नान्यथा सामायिकादिपदलाभ इति बोध्यम् । यदित्युद्देश्योपदर्शने, मुहुर्मुहु:पुनः पुनः भृशमभीक्ष्णं च न त्वेकवारमेव, भाव्यते - युक्तिपूर्वकं मन्यते, साऽनुष्ठानं स्मर्यते च । " ज्ञानक्रियाभ्यां मोक्षः " इत्युक्तेरिति ध्येयम् । तत् यत्पदोद्दिष्टमेव, एवकारेण केवलाऽधिकाऽधिगमस्य सकृत्तद्भावनायाश्च व्यवच्छेदः । उत्कृष्टम् -