________________
ज्ञानसारे ज्ञानाऽष्टकम्
॥ अथ ज्ञानाऽष्टकम् ॥ ५॥ ज्ञानिनो न मोह इत्युक्तम् । तत्र किं ज्ञानमिति शिष्यस्योस्थितामाकाङ्क्षां कलयित्वाऽऽदौ तटस्थया ज्ञानाऽज्ञाने निरूपयन्नाह ।
मजत्यज्ञः किलाऽज्ञाने विष्ठायामिव शकरः। . ज्ञानी निमजति ज्ञाने मराल इव मानसे ॥ १ ॥
मजतीति । अज्ञ:-असम्यक्तयाऽविद्यमानमिव ज्ञानं यस्य स तादृशः । विषयपरतन्त्रो रागादिप्रस्तबुद्धिहें योपादेयविवेकविकल इति वाऽर्थः । ज्ञान फलं विरतिरिति तद्रहित इति यावत् । सम्यग्ज्ञानाऽभावे हि जडत्वमेव वरम्, यदुक्तम्-" शुभोदर्काय वैकल्यमपि पापेषु कर्मस्वि" नि भावः । अज्ञाने-कार्ये कारणोपचारादज्ञान कार्ये विषयाऽऽसेवादी, शूकर:-स्वनामख्यातः पशुविशेषः किटिः, विष्ठायाम्-पुरीष इव, मज्जति-मग्नो भवति, साभिनिवेशं प्रवर्तत इत्यर्थः । किलेति विषयवस्तुत्वे, वास्तवमेतअस्वलीकमित्यर्थः यथाः शूकरः स्वादु शुचि च भक्ष्यमुपेक्ष्य विष्लैकमनाः प्रवर्तते, तल्लामेऽन्यदुपेक्षते च स्वादुत्वशुचित्वजडस्वात् । तथाऽज्ञोऽज्ञानादेव हेतोरज्ञाने प्रवर्तते, ज्ञानं चोपेक्षते, ज्ञानाऽपरिचयादिति विशदोऽर्थः । नन्वज्ञ एवम् , ज्ञानी पुनः कीदृश इत्याकाडानिवृत्तये आह-ज्ञानी-अज्ञविपरीतः, विषयवि. मुखो रागादिरहितमतियोपादेयविवेकवानिति वाऽर्थः सम्यग्ज्ञानवानिति यावत् । ज्ञाने-ज्ञानकायें मोहोन्मूलनादौ, मराल:-हंसः, मानसे-तदाख्यसरसीव, निमजति-लक्षणयासर्वथा प्रवर्तत