________________
४४ .
भद्रङ्करोदयाख्यव्याख्याविभूषिते
___इति महामहोपाध्याय श्रीयशोविजयोपाध्यायविरचिते ज्ञानसारे मोहत्यागाऽष्टकं नाम चतुर्थमष्टकम् ॥ ४॥
य इति । य!-यत्प्रकारः पुण्यात्मा, चिद्दर्पणविन्यस्त ममस्ताऽऽचारचारुधी:-चिदेव निर्विकल्पकत्वान्निर्मलत्वादाचारादिविषयकतया प्रतिबिम्बग्राहितया दर्पण आदर्शः, तत्र शुद्धचिद्दर्पणे विन्यस्तः प्रतिबिम्बितः, स्थापित इत्यर्थः । शुद्धबुद्धिपूर्वकमनुष्ठित इति यावत् । तादृशो यः समस्तः समग्रो न तु कतिपय एव य आचारः प्रसिद्धं ज्ञानाद्याचारपञ्चकम् , नियाज आचार इति समुदितसाराऽर्थः । तेन कृत्वा चार्वी निर्दोषत्वान्मनोज्ञा धीबुद्धिर्यस्य स तादृशः, शुद्धबुद्धिपूर्वकाऽऽचारवत्त्वात्प्रशस्यबुद्धिः, सज्ज्ञानो. पासनमेव सकलाचार इतीदृशमतिरिति यावत् । शुद्धबुद्धिपूर्वके. णाऽऽचारेणैव सुमतित्वमुपलक्ष्यत इति भावः । सः-तादृशः, चारु. बुद्धिजनः। क्व नाम-कस्मिन् खलु, अनुपयोगिनि-उपयोगाऽनहें, परद्रव्ये-आत्मभिन्ने द्रव्ये पुद्गलादिरूपे, मुह्यति-काक्वा, नैव मुह्यतीत्यर्थः । न रागद्वेषादिकरोतीति यावत् । शुद्धे ज्ञाने एव सकलाऽऽचारमारोपयतः-ज्ञानोपासनमेव सकलाचार इत्येवं मन्यमानस्य सुमते नर्नाऽऽत्मभिन्ने द्रव्ये मोहो जायते, आत्मज्ञानाऽनुपयो. गित्वादिति सम्यग्ज्ञानाराधनमेव मोहत्यागोपाय इति तदर्थमेव सर्वथा सर्वदा च यतनीयमिति भावः ॥ ८ ॥ इति श्रीज्ञानसारे प्रख्यातव्याख्यात-कविरत्न-पन्यासप्रवर-श्री. यशोभद्रविजयजीगणिवरशिष्यपन्न्यासश्रीशुभकरविजयगणिविरचितायां भद्रङ्करोदयाख्यव्याख्यायां मोहत्यागाऽष्टकं नाम चतुर्थ. मष्टकम् ॥ ४॥