________________
ज्ञानसारे मोहत्यागाऽष्टकम्
४३
दिति भावः ॥ उपमाऽलकारः॥ ६ ॥ ___मोहत्यागसुखं कीहशमित्यज्ञात्वा कथं मोहत्यागे समुत्सहेत जन इति स्फुरिताऽधरस्य शिष्यस्य मनोभावमनुमाय समाधत्ते
अनारोपसुखं मोहत्यागादनुभवन्नपि । आरोपप्रियलोकेषु वक्तुमाश्चर्यवान् भवेत् ॥ ७ ॥
अनारोपेति । मोहत्यागात्-तथाविधचारित्रपालनादिना मोह. नीयक्षयोपशमात् , लक्षणया तज्जन्यसम्यग्ज्ञानात् , अनारोपसुखम्अविद्यमान आरोप उपाधिसम्बन्धाऽध्यासो यत्र तादृशं सुखम् , स्वाभाविकसुख मित्यर्थः । अनुभवन्-मानसप्रत्यक्षविषयं कुर्वन्नपि कश्चिद्विरलः पुण्यात्मा, अपिनाऽननुभवतस्तु कथैव केति सूच्यते। आरोपप्रियलोकेषु-इदं ममेत्येवमस्वेऽपि स्वत्वारोपः प्रियोऽज्ञानादिष्टो येषां तेप्वज्ञेषु लोकेषु विषये, वक्तुम्-उपदेष्टुम् , अनारोप. सुखमिति कमाऽऽकाङ्क्षाबलात्सम्बध्यते । आश्चर्यवान्-विस्मितः, भवेत्-जायेत । अनारोपसुखं ह्यनुभूतिविषयो न तु वाग्विषयः। यच्चाऽनुभवति तद्वक्तुं न शक्नोतीति विस्मयते इत्यर्थः । अतोऽनारोपसुख जिज्ञासूनां मोहं त्यक्त्वैव तज्ज्ञातव्यं न तूपदेशा. दिना, तस्योपदेष्टुमशक्यत्वादित्यनिर्वचनीयत्वं तस्य सूचितमिति ध्येयम् । यदुक्तम्-" ज्ञानमग्नस्य यच्छर्म तद्वक्तुं नैव शक्यते । नोपमेयं प्रियाऽऽश्लेषैर्नाऽपि तच्चन्दनद्रवैरि "ति ॥ ७ ॥
शिष्यं भझ्या मोहत्यागोपायमुपदिशन्नुपसंहरतियश्चिद्दर्पणविन्यस्तसमस्ताऽऽचारचारुधीः । क्व नाम स परद्रव्येऽनुपयोगिनि मुमति ॥ ८॥