________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
स्वाभाविकत्वात्तत्यागोऽशक्य इति साऽऽशकं शिष्यं तत्त्वमुपदिशन्नाह
निर्मलं स्फटिकस्येव सहज रूपमात्मनः । अध्यस्तोपाधिसम्बन्धो जडस्तत्र विमुह्यति ॥ ६ ॥
निर्मलमिति । आत्मनः-जीवस्य, सहजम्-स्वाभाविकम् , निश्चयनयेष्टमिति यावत् । रूपम्-स्वरूपम् स्वभाव इत्यर्थः । " रूपं स्वभावे सौन्दर्य" इत्यमरः । स्फटिकस्य-तदाख्यरत्नविशेषस्येव, निर्मलम्-निर्विकल्पकं शुद्धं च । स्फटिकं यथा स्वभावात्स्वच्छं भवति, तथाऽऽस्माऽपि निश्चयनयेन निर्विकल्पचिदात्मकत्वाच्छुद्धस्वभाव इत्यर्थः । ननु तर्हि कथं तत्र मोहाऽऽविर्भाव इत्याशङ्कायामाह-अध्यस्तेत्यादि । तत्र-तादृशे शुद्धे आत्मनि स्फटिके च, जड:-सम्यग्ज्ञानवञ्चितोऽविवेकी मन्दमतिश्च जनः, वस्तु याथाम्यानभिज्ञत्वादज्ञानी जन इत्यर्थः । अध्यस्तोपाधि सम्बन्धःअध्यस्तोऽसत्त्वेऽपि सत्त्वेन कल्पितोऽज्ञानादारोपित उपाधेविषयस्य रक्ततादेश्च सम्बन्धः स्वस्वामिभावतादात्म्यादिरूपो येन स तादृशः सन् , विमुह्यति-मोहमेति । अस्वमपि स्वममलमपि मलिनं जानातीत्यर्थः । यथाहि रक्तपुष्पादिसन्निधौ स्फटिके रक्तता मूर्च्छति, मज्ञश्च परमार्थाऽनभिज्ञत्वात्स्फटिकमेव रक्तं मन्यते, तथाऽस्वे विषयादौ स्वत्वाधारोप्याऽविवेकी सम्यग्ज्ञानविकलो जनो रागद्वे. षादि कुर्वन् मुमति । एवञ्चाऽज्ञानादेवाऽऽत्मनि सविकल्पकत्वमानम् , वस्तुतस्तु स निर्विकल्प एवेति सम्यग्ज्ञानेन विषयेषु विवेकं गृहीत्वा मोहमुत्सृजेत् । मोहस्य कृत्रिमतया तत्त्यागस्य सुकरत्वा