________________
ज्ञानसारे मोहत्यागाऽष्टकम्
विकल्पेति । अयम्-सद्यः स्वस्मिन् परस्मिश्चाऽनुभूयमानः, आत्मा - जीवः, विकल्पचषकैः - विकल्पा इदमिष्टमिदमनिष्टमित्येवं रागद्वेषाद्युल्लेखि मनोवृत्तयो विषयोल्लेखिमनोवृत्तयो वा, विषयचिन्तनानीति यावत् । त एव मोहासवपानसाधनत्वाच्चषकास्तदाख्यमदिरापानपात्राणि, तैः कृत्वा, विकल्पगर कैरित्यर्थः । " गल्त्रर्कस्तु चषकः स्यात्सर कश्चाऽनुतर्षणमि " ति हैमः । पीतमोहासव :- पीतो मतिविषयीकृतः कण्ठादधः कृतश्च मोहो ममत्वमेव सम्यग्ज्ञानतिरोधायकत्वादासवो मद्यं येन स तादृशः सन् । विषयविकल्पतो हि तत्र ममत्वं जायते । यदुक्तम्- " ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गात्संजायते कामः कामात्कोधोsभिजायते । क्रोधाद्भवति संमोह " इति । हि-निश्चयेन, । । भवोच्चतालम् - भवः पुनः पुनर्जन्मग्रहणं तदधिष्ठानं लोकश्चैवोच्चस्तालो हस्ततालो यत्र तादृशः पानगोष्ठी, तम् । उत्तालप्रपञ्चम्उदुच्चैस्तालो हस्ततालस्तस्य प्रपञ्चो विस्तारो यथा स्यात्तथा, अथ चोतालोऽस्युत्कटो बाल्ययुक्त्वादिरूपः प्रपञ्चो विस्तारो यथा स्यात्तथा । अधितिष्ठति - आश्रयति । " पानगोष्ठ्यामुच्चतालमि "तिः हैमः । मद्यं पीत्वा हि मत्ताः पानगोठ्यामुचैस्तालं दत्त्वा नृत्यादि कुर्वन्ति तथा विषयचिन्तनेन जातमोह आत्मा बाल्याद्यवस्था बहुलां भवपरम्परां यातीत्यर्थः । तस्माद्विवयवैराग्यपूर्वकं मोहत्यागोऽवश्यं विधेयो भवभीतेन मुमुक्षुणा, मोहस्य भवपरम्परारूपाड़नर्थ परम्पराऽऽपादकत्वादिति भावः । परम्परितरूपकाऽलङ्कारः ||५|
,
नन्वारमा चेतनः चेतनां च विषयोल्लेखिनीति विकल्पस्व
"
४१
·