________________
४०
. भद्रङ्करोदयाख्यव्याख्याविभूषिते खेदाऽत्यन्ताऽभावश्च कारणाऽभावादिति द्योत्यते । सन्निति शेषः । प्रतिपाटकम्-पाटके पाटके, पाटको ग्रामार्थः । उपलक्षणत्वाद्रामभागोऽपि । भवचक्रपुरस्य चैकेन्द्रियादिर्भागः, तत्र प्रतिभागे स्वस्मिश्च, परद्रव्य नाटकम्-पराणि स्वभिन्नानि यानि द्रव्याणि कर्मपुङ्गलरूपाणि, तन्निमित्तत्वात्तेषां नाटकं कर्मपुद्गलजनिताऽभिनव. विविधजन्ममरणादिरूपदृश्यश्रव्यपरिणामपरम्परारूपत्वान्नाटकप्रकारत्वान्नाटकम् । पश्यन्-अनुमवन् , एवकारो हेतौ । यतस्तथा पश्यतः न-नैव, परिखिद्यति-खेदाऽतिशयं प्राप्नोति। जन्मायेव भवक्लेशः, तच्च सर्वसाधारणं पुद्गलकृतं न तु स्वयं कृतम् । यच्च तथा, तत्माप्तौ न कस्याऽपि खेदो ज्ञानिनः, आत्मनः शुद्धस्वभावस्य परकृतहर्षविस्मयादेरभावात् । मूढस्यैव तु स जायते। अतो मोहस्त्याज्यः, तत्त्यागे चाऽमूढस्य न खेद इति महाँल्लाभः । अमूढो हि ताटस्थ्येन समभावेन सर्व पश्यति, न तु क्वापि रज्यति द्वेष्टि वा । अतस्तस्य न खेदोऽपि । यदुक्तम् " इहैव तैर्जितः सर्गे येषां साम्ये स्थितं मन" इति भावः । अतिशयोक्त्यनुप्राणितो रूपकालकारः । क्वचित्परिखिद्यते इति पाठः । परिखिद्यतीति पाठोऽपि साधुरेव "खिद्यति काव्ये न मौख्ये स्वे " इत्यादौ परस्मै पदस्याऽपि दर्शनात् ।। ४ ॥
सम्प्रति शिष्यस्य मोहे हेयस्वभावनादादाय पृथक्त द्विजृम्भितमाह
विकल्पचषकैरात्मा पीतमोहाऽऽसवो ह्ययम् । भवोच्चतालमुसालप्रपञ्चमधितिष्ठति ॥५॥