________________
३९
ज्ञानसारे मोहत्यागाष्टकम्
ख्येन कर्मणा, आकाश पङ्केनेव, न लिप्यते न बध्यते । विषयाहि सम्पर्कमात्रेण न स्वतः कर्मबन्धप्रयोजकाः, किन्तु तज्जनितरागद्वेषद्वारा । यदुक्तम् - " युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निवध्यत " इति, रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्वरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छती " ति, " लिप्यते न स पापेन पद्मपत्रमिवाSम्भसे " ति, " यो न हृष्यति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिते " ति च । एवञ्चोदयिका दिभावस्थस्य कर्मफलरूपेण विषयोपभोगमात्रेण न कर्मबन्धः, किन्तु तादृशभोगे मोहात्स इति सर्वाऽनर्थमूलतया मोहोsवश्ययः, मोहत्यागश्चाऽवश्य साध्यः, यथा न कर्मबन्धः स्यादिति भावः ॥ ३ ॥
""
"
ननु भवक्लेशेन खेदस्याऽवश्यंभावात्तन्निमित्तेषु द्वेषो दुष्परिहर इति साशङ्कं शिष्यं तत्त्वमाह
पश्यन्नेव परद्रव्यनाटकं प्रतिपाटकम् । भवचक्रपुरस्थोऽपि नामूढः परिखिद्यति ॥ ४ ॥
पश्यन्निति । अमृढ: - मोहरहित; इष्टाऽनिष्टेषु रागद्वेषशून्यः, सम्यग्ज्ञानादिना समत्व संस्कृतमतिरिति यावत् । भवचक्रपुरस्थःभवानां कर्मवशाज्जायमानानां तत्तद्योनिजन्मनां चक्रं समूहः, भवपरम्परेति यावत् । तदेव कर्मनृपाऽऽधिवास भूमिस्वादे केन्द्रि यादिपाटकरध्यादिसमग्रत्वात्पुरं नगरम्, तत्स्थः कर्मवशाद्भवं प्राप्तः कर्मफलं भुञ्जानः, अपिना भवे खेवाऽवश्यम्भावो भवादन्यत्र
-