________________
भद्रकरोदयाख्य व्याख्याविभूषिते
स्वामित्वेन स्वस्य विषयस्य च स्वत्वेन भावनायास्त्यागपरतयैव नाsहं न ममेति प्रतिमन्त्रोऽभ्यसनीयः । शुद्धात्मनि शुद्धज्ञाने चाऽहं ममेति मन्त्रस्य मोहाऽक्षरशरीरत्वाऽभावातत्प्रतिमन्त्रोऽपि न तादृशाऽथाऽक्षरशरीर इति हृदयम् || २ |
शिष्याणां मोहे हेयश्वस्य मोहत्यागे चोपादेयत्वस्य दार्यार्थ फलमाह -
३८
यो न मुह्यति लग्नेषु भावेष्वौदयिकादिषु । आकाशमिव पङ्केन नाऽसौ पापेन लिप्यते ॥ ३ ॥
य इति । यः - यत्प्रकारः पूर्णतामभीप्सुः शुद्धबुद्धिर्जीवः, लग्नेषु -सम्बद्धेषु सत्सु, आत्मनस्तत्तद्भावरूपेण परिणतिर्हि तद्भावानां लग्नतेति बोध्यम् । प्राप्तेषु सत्स्वित्यर्थः । विशेष्याकाङ्क्षायामाह - औदयिका दिपु - उदयः कर्मणां स्वविपाकवशात्फलदानाऽभिमुखता, तत्र भव औदयिकः, स आदिर्येषां ते तादृशा औदयिक क्षायिकक्षायोपशमिकोपशमिकपारिणामिका:, तेषु तथा ख्यातेषु भावेषु - आत्मपरिणामविशेषेषु विषये, न-नैव, मुह्यतिमोहं प्राप्नोति । मोहो हि ममत्व बुद्धिरिष्टेऽनिष्टे च द्वेषोऽपि । ततश्च विषयेषु रागद्वेषं न करोति, औदयिकादिभावं च स्वं न मन्यते । अपि तु स्वस्वभावस्थस्ताटस्थ्येन वर्त्तते, कर्मफलस्याsवश्यभोक्तव्यत्वमवेत्य रागद्वेषौ विनैव ततद्भाववशात्प्राप्तं फलं
नाप्यप्रीतः समभावेन
भुनक्ति, स्वयं च तादृशभावेषु न प्रीतो वर्त्तते इति हृदयम् । असौ - तादृशो विरलो जीवः, पापेन - तदा