________________
ज्ञानसारे ज्ञानाऽष्टकम्
स्वशब्दस्य द्वन्द्वादी श्रूयमाणत्वात्प्रत्येकमन्वयः । स्वं द्रव्यं स्वो गुणः स्वः पर्यायश्च, तेषां चर्या श्रवणमननस्मरणसाक्षात्करणादिपवृत्तिः, वर्या-श्रेष्ठा । श्रेयःसाधनत्वादिति भावः । परा-उक्तप्रकारचर्याभिन्नचर्या, परद्रव्यादिचर्येत्यर्थः । अन्यथा-न वर्या, परद्रव्यादिचर्यया मोहादिजयाऽसम्भवात् । तया हि परद्रव्यादिषु रागादेरवश्यम्भावात् । यदुक्तम्-" ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायत" इति भावः । एतावानेव . ज्ञानसारः, मुनेश्च तावतैव सन्तोषः । स्वभावलाभसंस्कारकारणत्वात् । अन्यथा ध्यानध्यप्रसङ्गात् । तस्मान्निबन्धो नास्ति भूयसेति हृदयम् ॥ ५ ॥
ज्ञाने शिष्यश्रद्धादाार्थ तत्स्तुवन्नाहअस्ति चेद्ग्रन्थिमिज्ज्ञानं किं चित्रैस्तन्त्रयन्त्रणैः । प्रदीपाः क्वोपयुज्यन्ते तमोघ्नी दृष्टिरेव चेत् ? ॥६॥
अस्तीति । चेत-यदि, ग्रन्थिभित्-प्रन्थिः-यथापवृत्तिकरणेन ...पल्योपमाऽसहयातभागन्यूनैककोटाकोटिसागरोपमस्थिति- । केष्वायुर्वर्जेषु प्रत्येकं सप्तसु कर्मसु सत्सु तादृशकर्मजन्यगादरागादिपरिणतिरेव दुर्भेद्यत्वाग्रन्थिरिव ग्रन्थिः, तद्भिनत्तीति तत्तादृशम् , कार्ये कारणोपचारातादृशप्रन्थिभेदजन्यम् , ज्ञानस्य कर्मनाशकस्वातादृशप्रन्थिभेदकं वा, यद् , ज्ञानम्-विषयप्रतिभासशून्यशुद्धास्मपरिणामात्मको बोधः । मुष्टिज्ञानमिति यावत् । ग्रन्थिभेदे सति तादृशस्यैव ज्ञानस्योत्पादादिति बोध्यम् । ग्रन्थि भेदश्चाऽपूर्वकरणादिक्रमेण बोध्यः । विशेषतोवत्यं न काटामोटी ।