________________
ज्ञानसारे मोहत्यागाऽष्टकम्
३५
इति ज्ञानसारे प्रख्यातव्याख्यात-कविरत्न-पन्न्यासप्रवर-श्रीयशोभद्रविजयजीगणिवरशिष्यपन्यासश्रीशुभङ्करविजयगणिविरचितायां भद्रङ्करोयाख्यव्याख्यायां तृतीयं स्थिरताऽष्टकं समाप्तम् ॥ ३॥
अथ मोहत्यागाऽष्टकम् ॥४॥ स्थिरतासिद्धये यतनीयमित्युक्तम् , उपायस्तु नोक्तः। अतः कथं सा साध्येति किं कर्त्तव्यताविमूढं शिष्यमुपलक्ष्य मोहत्यागरूपमुपायं मोहस्वरूपमुपलक्ष यन्नाह
अहं ममेति मन्त्रोऽयं मोहस्य जगदाध्य कृत् । अयमेव हि नम्पूर्वः प्रतिमन्त्रोऽपि मोहजित् ।। १॥
अहमिति । मोहस्य-स्वनामख्यातस्य मोहनीयकर्मणः कार्य कारणोपचारान्मोहनीयविपाक जबुद्धेरपि मोहपदवाच्यतेति त्वन्यदेतत् । मन्त्रपदश्रुत्या तद्रूषस्य देवस्येति ध्वनिः । अहं मम धनादिसम्बन्धित्वेनाऽऽत्मबोध काहम्मदघटितः परस्मिन्स्वत्वबोधकममपदघटितश्चतुरक्षराऽऽस्मकः, इति उक्ताऽनुपूर्वीविशिष्टः, अयम्-सद्य एव कीर्त्यमानः श्रूयमाणश्च । मन्त्र:-मन्त्रपदवाच्यो मोहदेवाsघिष्टिताऽक्षरसमूह विशेषः मोहस्याऽक्षरात्मकं शरीरमित्यर्थः । मन्त्रो हि देवाऽधिष्ठितो भवतीति भावः । ननु स मन्त्रश्चेतेन किं साध्यमित्यपेक्षायामाह-जगदाध्यकृत्-जगत उपलक्षणत्वात्सर्वजीवस्याऽऽध्यमन्धत्वं स्वस्वरूपाऽनवमासं विपरीतज्ञानजननं ज्ञान च. क्षुराबरणं च करोतीति स तादृशः। अन्धो हि न पश्यति, वस्तु च यथास्थितं न जानाति, तिमिराद्यावृतदृष्टिश्च भवति । तथाऽहं ममेति मन्त्राऽभ्यासवशाज्जीवः शुद्धमात्मस्वरूपं न पश्यति, स्वभिन्न