________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
विषयं च स्वं जानाति, आवृतसम्यग्ज्ञानश्च भवति । तदेतत्सुष्ठूक्तं जगदाध्यकृदिति। मोहनीयकर्मविपाके सत्येवाऽहं ममेति बुद्धिः। यदुक्तम्-" अनित्यधनदेहादौ नित्यत्वेन ममेति च । अज्ञानेनावृता बुद्धिर्मोह इत्यभिधीयते " इति । ननु स्थिरता कथं लभ्येति जिज्ञासोमा॑हस्वरूपोपदेशो दीक्षार्थिनो विवाहप्रस्ताव इवाऽनवसरपाठ इत्याशेपं निराचिकीर्षुराह-अयमिति । हिः पुनरथें । एवञ्च मोहस्वरूपमजानतो मोहजयोपदेश आकाशे चित्र कर्मोपदेश इव मा जनीति पूर्व मोहम्वरूपोपदेश इति ध्वन्यते । अयम्-स मन्त्र एव, एवकारेण न्यूनाधिक्यस्य भिन्नाक्षरमन्त्रस्य च व्यवच्छेदः । नत्रपूर्वः नञ् शब्दः पूर्वः पूर्वमुच्चारितो यस्य स तादृशः सन् । नाऽहं न ममेत्येवमक्षरात्मकः इत्यर्थः । प्रतिमन्त्रः प्रतिस्पर्धी मन्त्रः। अपिना मन्त्रपरामर्शः। स यथा मन्त्रस्तथा विशिष्टः सन् प्रतिमन्त्रश्चेत्यर्थः । ननु स प्रतिमन्त्र इति कथं ज्ञायते इत्याकासाथामाह-मोह जित्-मोहनाशकः । अत एव स प्रतिमन्त्रः, प्रति. कूलकार्यकरणात् । ततश्च मोहरूपकारणाऽभावात्तन्मन्त्रकृतस्याऽन्धत्वस्याऽभावः सुतरामिति बोध्यम् । यदा यह कारो विषयेषु ममत्वं च त्यज्येते, तदा मोहो नश्यति, स्थिरता चोदेति, ततश्च क्रमेण मग्नतादिलाभः । विषयेषु ममत्वेऽहकारे च सति चित्तचा. वल्याऽवश्यम्भावान्मोहवशाद्विषयमनुमनसो धावनान्न मग्नतादिलाभसम्भव इति हृदयम् ॥ १ ॥ - ननु नाऽहं न ममेति मन्त्रो दुर्जयः, अहं पदवाच्यस्याऽऽत्मनो मम पदवाच्यस्य ज्ञानादिगुणादेश्चाऽपलापप्रसङ्गादित्याशङ्कातङ्कित