________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
स्थिरतां विना समाधेरनुपपत्तेः । एवञ्च फलतस्तादृशसमाध्यनन्तरमावि कैवल्यप्रतिरोध एव जायते इति महानर्थ करमस्थैर्य येन केनाऽपि प्रकारेण त्यजैवेति भावः । रूपकमलङ्कारः ॥ ७ ॥
स्थिरता हि सर्वदा सर्वेष्वेवेष्टा, कैवल्याऽनुगुणत्वादिति तदवश्यं साधनीयमिति शिष्यमुपदिशन्नुपसंहरति
चारित्रं स्थिरतारूपमतः सिद्धेष्वपीप्यते । यतन्तां यतयोऽवश्यमस्या एव प्रसिद्धये ॥ ८॥ इति महामहोपाध्यायश्रीमद्यशोविजयोपाध्यायविरचिते ज्ञानसारे स्थिरताऽटकं नाम तृतीयमष्टकम् ॥ ३॥
चारित्रमिति । स्थिरतारूपम्-स्थैर्यात्मकम् , चारित्रम्संयमः, अस्तीतिशेषः । अत:-चारित्रस्य स्थिरतारूपत्वादेव, सिद्धेषु-मुक्तेष्वपि, अमुक्तेषु तु कथैव केत्यपिना सूच्यते । इष्यतेइष्टम् । चारित्रं स्थिरतारूपं क्रियारूपं च । तत्र क्रियारूपस्य चारित्रस्याऽशरीरेषु मुक्तेष्वसम्भवास्थिरतारूपमेव तत्तत्र । आत्मप्रदेशस्थिरताया मुक्तात्मस्वभावभूतगुणत्वादिति भावः । अत एव, अस्या:-मुक्ताऽमुक्तसाधारणतयाऽवश्योपादेयायाः स्थिरतायाः, एवकारो भिन्नक्रमोऽवश्यमित्यनेन सम्बध्यते । प्रसिद्धये-प्रकर्षण सिद्धये लाभाय, यतयः-साधवो यमनियमपराः, अवश्यमेव, यतन्ताम् -सोधमा भवन्तु । यतीनामेतदावश्यकमिति शिष्याः ! यूयमपि यतयोऽवश्यमेतसिद्धये यतध्वम् । यद्धि सर्वत्राऽऽवश्यक तसिद्धौ कः प्रेक्षावानुदासीतेति हृदयम् ॥ ८ ॥