SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे स्थिरताऽष्टकम् ३३ करणाद्भवपरम्परारूपपीडाधिक्यकरणाच्च धूमेभ्योऽप्यतिशयितैय. स्वाभूमवन्म लिनैश्च, आस्रवेः-कर्मवन्धप्रयोजककायवाङ्मनोयोगैः, अलम्-कृतम्, न ते भवन्ति, न वा तैः किमपि कत्तुं शक्यमिति चाऽर्थः । स्थैर्ये हि सति विकल्पानामास्रवाणां च निरोधो जायते । तन्मूलस्य चित्त चाञ्चल्यस्याऽभावादिति स्थिरताऽवश्यमुपादेयाऽथैर्य चाऽवश्यं हेयम् । यथा न विकल्पैरास्रवैश्वाऽऽमालिन्यं कर्मवन्धश्च भवेदितिभावः । रूपकमुपमा वा ॥ ६ ।।। शिष्यस्याऽस्थैर्य विशेषतोऽरुचये ततोऽपायान्तरमाहउदीरयिष्यसि स्वान्तादस्थैर्ष पवन यदि । समाधम मेघस्य घटां विघटयिष्यसि ॥ ७ ॥ उदीरयिष्यसीति । वत्सेति सम्बोधनं प्रकरणालभ्यम् । यदि, स्वान्तात् - चित्तमवधिं कृत्वा, चित्तवृत्तिरूपमित्यर्थः । अस्थैर्यपवनम्-अस्थैर्यमेव धर्ममेघघटाविघटनात्पवनो वायुरिव, तम् , उदीरयिष्यसि-उत्प्रेरयिष्यसि, प्रकटयिष्यसीत्यर्थः । चित्तचाश्चत्यं धारयिष्यसीति यावत् । तदेति यद्यर्थवलालभ्यते। धर्ममेघस्य-धर्मस्याऽङ्कुरादेर्मेघवत्प्ररोहपोषवृद्ध्यादिकरत्वान्मेषः, तद्रूपस्य, समाधेः योगत्रयाऽऽत्मैकतानताया मानससर्वप्रकारवृत्तिनिरोधरूपाऽसम्प्रज्ञातसमाधेर्धर्ममेघ इतिख्यातस्येत्यर्थः। घटाम्-समूहम् , समाधिपक्षे तदुत्कर्ष सातिशयत्वं वा, विघटयिष्यसि-नाशयिष्यति । यथा हि पवनेन मेघा विनश्यन्ति, तथाऽस्थैर्येण समाधिानश्यति ।
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy