________________
३२
भद्रङ्करोदयाख्यव्याख्याविभूषिते
अङ्गी योग्यात्मा, तस्य वाङ्मनः कायैः कृत्वा स्थिरता परिणामोऽङ्गमित्येवमङ्गाङ्गिभावो योगिस्थिरतयोरिति बोध्यम् । ते तादृशाः स्थिरतया प्राप्ताऽङ्गाङ्गिभावाः, योगिनः- मग्नताख्ययोगव्यापृता जीवाः, ग्रामेऽरण्ये दिवा निशि - सर्वत्रस्थले सर्वत्रकाले चेत्यर्थः । समशीलाः- समचित्तवृत्तयः, भवन्तीतिशेषः, सर्वत्रैकस्वभावा एव तिष्ठन्ति, न तु कापि कथमपि क्षुभ्यन्ति । एवं च तेषां मग्नतापर्याय: समुदेति । स्थिरतायास्तद्धतुत्वात्कारणसत्त्रे कार्याऽवश्यभावादिति भावः । स्थिरता समताहेतुरिति हृदयम् ॥ ५ ॥
शिष्यं मग्नतास्थिरतयोः कार्यकारणभावं बुबोधयिषुः स्थिरतया मग्नतालाभे विकल्पानामात्रवाणां च निरोधरूपं द्वारमाह
स्थैर्यरत्नप्रदीपश्चेद्दीप्रः सङ्कल्पदीपजैः । तद्विकल्पैरलं धूमैरलं धूमैस्तथाऽऽस्रवैः || ६ ||
"
स्थैर्येति । चेद्-यदि, स्थैर्य रत्नप्रदीपः- स्थैर्यमुपशम एव विकल्पात्मकधून दिरहितत्वात्सदा प्रकाश कत्वान्निर्मलत्वाच्च रत्नप्रदीप रत्नात्मक प्रदीप इव सः । दीप्रः - दीपनशीलः, प्रकाशमान इत्यर्थः । आत्मतादात्म्यापन्न इति यावत् | तत् - तदा सङ्कल्पदीपजै :- सङ्कल्पो विविधमनोवृत्तिः, स एव दीपो विषयविकरूपात्मक धूम जनकस्वाराज्जैस्तस्माज्जातैः विकल्पैः- विकल्पात्मकैः, विविधविषयस्मरणात्मकैरिति यावत् । धूमैः - आत्मगृह कालुष्यरूपकज्जलजनकत्वाद्भवपीडा जनकत्वाच्च घूमतया प्रतिराद्यमानत्वाद्भूमैः, तथा-पुनः, अलम्-अत्यर्थम्, धूमैः - अतिशयेनाऽऽत्म मलिनी