SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ निसारे स्थिरताष्टकम् ३१ अन्तरिति । यदि-यदा, अन्तर्गतम् - हृदयस्थम्, पक्षे शरीरान्तर्विद्धम्, महाशल्यम् - महच्च तच्छल्यं शङ्कुकीलका दि च, तदिव । महाशल्यतुल्यमित्यर्थः । " शल्यं शङ्कावि " ति हैमः । अस्थैर्यम् - विषयाऽभिमुखमनोवृत्तिः, नोद्धृतम्-न विशोधितम्, पक्षे नोत्खातम् । तदा - अस्थैर्यशल्याऽनुद्धारदशायाम् । गुणम्मग्नतासुखादिलाभम्, पक्षे पीडानिवृत्तिम्, अयच्छतः - अप्रददतः, अकुर्वत इत्यर्थः । क्रियौषधस्य - क्रिया कायगुत्यादिरावश्यकादिक्रियौषधमव, तस्य । को दोपः - कोडाराधः । न कोऽपीत्यर्थः । शल्ये हि विद्धेऽनुद्धृते सत्यौषधस्य गुणाकरणं नौषधस्य दोषः, किन्तु शल्यस्यैव । औषधकृत गुणस्य शल्यकृतपीडया पराभवात् । तथा हृदयेऽस्थिरे क्रियाssवश्यकादिका निष्फला चेन्न स कियाया दोषोऽपि स्वस्थैर्यस्यैव । क्रियाकृतगुणस्याऽस्थैर्येण विलोपनात् । अतः स्थिरो भवेत्युपदेशः ॥ ४ ॥ अथ स्थैर्यमुपादेयमिति शिष्यप्रबोधाय फलमुखेन स्थिरता - मभिष्टौति स्थिरता वाङ्मनःकायैर्येषामङ्गाङ्गितां गता । योगिनः समशीलास्ते ग्रामेऽरण्ये दिवा निशि || ५ || • स्थिरतेति । येषाम् - यत्प्रकाराणां येोगिनाम्, वाङ्मनःकायै: - वाचा मनसा कायेन शरीरेण नेत्रादीन्द्रियविशिष्टेन च कृत्वा, : स्थिरता - इन्द्रियमनः प्रभृतीनामन्तर्मुखवृत्तिता, अङ्गाङ्गिताम् - अङ्गाङ्गिभावं तादात्म्यं नथापरिणामरूपतां वा । गता - प्राप्ताः ।
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy