________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते अस्थिर इति । हृदये-अन्तःकरणे, चेतसीत्यर्थः । " चित्तं तु चेतो हृदयमि "त्यमरः । अस्थिरे-बहिर्मुखवृत्तिके सति, विषयाऽभिमुखे सतीत्यर्थः । अनुपशान्ते इति यावत् । चित्रा-विविधप्रकारा, वाङनेत्राकारगोपना-वाचो नेत्रस्योपलक्षणत्वाद्वहिरिन्द्रियस्याऽऽकारस्येगितस्य-मनोभावप्रकाशकाऽवयवविकारस्य गोपना गुप्तिक्रिया, बहिः स्थिरतेति यावत् । पुंश्चलीपक्षे निलायनक्रिया, अवहित्थेति यावत् । " आकारस्त्विङ्ग इङ्गितमि "ति हैमः । " अवहित्थाऽऽकारगुप्तिरि "त्यमरः । पुंश्चल्या:-कुलटाया इव । पुंश्चल्याश्चित्रा वाड्नेत्राकारगोपनेवेत्यर्थः । कल्याणकारिणीमग्नतादिरूपशुभप्रदा, पक्षे सतीत्वयशःप्रभृतिशुभप्रदा, न प्रकीतिता-न कथिता । कुलटाया हि वाङ्नेत्रा कारगोपनया कुलीनत्वाऽभिनयो न यशसे, प्रत्युतोपहासायैव । तथा मनःस्थैर्य विना वागादिगोपनामात्रेण बहिःस्थिरतात्मकेन न मग्नतादिरूप. कल्याणप्राप्तिरिति भावतः स्थिरताऽवश्यं साधनीया । भावस्थैर्यसहितेनैव द्रव्यादिस्थैर्येणेष्टसिद्धेः । यदुक्तम्-" प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषमि "ति भावः । उपमाऽलङ्कारः ॥ ३ ॥
ननु तर्हि वागादिगुप्त्यादिक्रिया विष्फलेत्यायातम् , तच्चाऽनिष्टम् । लोकानां तत्राऽप्रवृत्त्यापत्तेरिति शिष्यशकां स्वयमेव समादधदाह
अन्तर्गतं महाशल्यमस्थैर्य यदि नोद्धृतम् । क्रियौषधस्य को दोषस्तदा गुणमयच्छतः ॥ ४ ॥